________________
जी० ६५
Jain Education In
भिरप्रमहिषीभिः सपरिवाराभिस्तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेव सहसैरन्यैश्च बहुभिज्योतिषैर्देवैर्देवीभिश्च सार्द्ध संपरिवृत: 'महयाहये' त्यादि पूर्ववत् यावद्दिव्यान् भोगभोगान् भुञ्जानो विहर्तुमिति, न पुनः 'मैथुनप्रत्ययं' मैथुननिमित्तं दिव्यान् स्पर्शादीन् भुञ्जानो विहतु प्रभुरिति ॥ 'सूरस्स णं भंते!' इत्यादि, सूरस्य भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य कति अप्रमहिष्यः प्रज्ञप्ताः ?, भगवानाह - गौतम ! चतस्रोऽयमहिष्यः प्रज्ञप्ताः, तद्यथा - सूर्यप्रभा आतपाभा अर्चिर्माली प्रभङ्करा । ' तत्थ णं एगमेगाए देवीए ' इत्यादि चन्द्रवत्तावद्वक्तव्यं यावत् 'नो चेव णं मेहुणवत्तियं' नवरं सूर्यावतंस के विमाने सूर्ये सिंहासने इति वक्तव्यं, शेषं तथैव ॥
चंद्रविमाणे णं भंते! देवाणं केवतियं कालं ठिती पण्णत्ता ?, एवं जहा ठितीपए तहा भाणियव्वा जाव ताराणं ॥ ( सू० २०५ )
'चंद विमाणे णं भंते!' इत्यादि, चन्द्रविमाने भदन्त ! देवानां कियन्तं कालं स्थिति ?, भगवानाह - गौतम ! जघन्येन चतुर्भागपल्योपमं - चतुर्भागः पल्योपमस्य चतुर्भागपल्योपममर्द्धपिप्पलीवत्, अत्रापि चिरन्तनव्याकरणेऽयं समासः, यदिवा चतुर्भागमात्रं पल्योपमं चतुर्भागपल्योपममिति विशेषणसमासः पत्योपमस्य चतुर्भाग इत्यर्थः, उत्कर्षतः पत्योपमं वर्षशतसहस्राभ्यधिकं, चन्द्रविमाने हि चन्द्रदेव उत्पद्यते अन्ये च तत्सामानिकात्मरक्षादयः, तत्रात्मरक्षादीनां यथोक्ता जघन्या स्थितिः उत्कृष्टा चन्द्रमसां तत्सामानिकानां वा । 'चंद विमाणे णं भंते!' इत्यादि, चन्द्रविमाने भदन्त ! देवीनां कियन्तं कालं स्थितिः प्रज्ञता ?, भगवानाह - गौतम ! जघन्येन चतुर्भागपल्योपममुत्कर्षतः पल्योपमा पञ्चाशता वर्षसहस्रैरभ्यधिकं । एवं सूर्यादिविमानविषयाण्यपि स्थितिसूत्राणि वा
For Private & Personal Use Only
v.jalnelibrary.org