SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ३ प्रतिपत्तौ | तारान्तरं त्रुटिकं अ| मैथुनं सू. र्यादिदेव्यः | उद्देशः २ सू०२०१२०४ ॥३८४॥ तद्यथा-चन्द्रप्रभा १ 'दोसिणाभा' इति ज्योत्स्नाभा २ अचिर्माली ३ प्रभङ्करा ४ ॥ 'तत्थ णमित्यादि, 'तत्र' तासु चतसृषु अग्रमहिषीषु मध्ये एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि परिवारः प्रज्ञप्तः, किमुक्तं भवति ?-एकैकाऽयमहिषी चतुणी २ देवीसह-| खाणां पट्टराज्ञी, एकैव सा इत्थम्भूताऽप्रमहिषी परिवारावसरे तथाविधां ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्य प्रभुरन्यानि आमसमानरूपाणि चत्वारि देवीसहस्राणि विकुर्वितुं, स्वाभाविकानि पुन: 'एवमेव' उक्तप्रकारेणैव 'सपूर्वापरेण' पूर्वापरमीलनेन पोडश [ग्रन्थानम् ११५००] देवीसहस्राणि चन्द्रदेवस्य भवन्ति, 'सेत्तं तुडिए' तदेतावत् 'तुटिकम्' अन्तःपुरम् , आह चूर्णिकृत्-'तुटिकमन्त:पुरमुपदिश्यते' इति ॥ 'पभू णं भंते! इत्यादि, प्रभुर्भदन्त! चन्द्रो ज्योतिपेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने सभायां सुधर्मायां चन्द्रे सिंहासने 'तुटिकेन' अन्तःपुरेण सार्द्ध दिव्यान् भोगभोगान् भुञ्जमान: 'विहर्तुम्' आसितुम्?, भगवानाह-गौतम! नायमर्थः समर्थः ।। अत्रैव कारणं पृच्छति-से केणद्वेग'मित्यादि तदेव, भगवानाह-गौतम! चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिपराजस्य चन्द्रावतंसके विमाने सभायां सुधर्मायां माणवकचेत्यस्तम्भे वनमयेषु गोलवृत्तसमुद्केषु तेषु च यथा तिष्ठन्ति तथा विजयराजधानीगतसुधर्मासभायामिव द्रष्टव्यं, बहूनि जिनसक्थीनि संनिक्षिप्तानि तिष्ठन्ति यानि, सूत्रे खीत्वनिर्देश: प्राकृतत्वात् , चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य अर्चनीयानि पुष्पादिभिर्वन्दनीयानि विशिष्टैः स्तोत्रैः स्तोतव्यानि पूजनीयानि वस्त्रादिभिः सत्कारणीयानि आदरप्रतिपत्त्या सन्माननीयानि जिनोचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनीयानि, 'तासिं पणिहाए' इति तेषां प्रणिधया तान्याश्रित्य नो प्रभुश्चन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने यावद्विह्नुमिति । 'पभू णं गोयमा' इत्यादि, प्रभुगौतम! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने सभायां सुधर्मायां चन्द्रसिंहासने चतुर्भिः सामानिकसहस्रैश्चतसृ R5RANCHOOL CARRACTICCES Jain Education Inte For Private & Personel Use Only PMainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy