________________
जहा चंदस्स णवरिं सूरवडिसए विमाणे सूरंसि सीहासणंसि, तहेव सव्वेसिपि गहाईणं चत्तारि
अग्गमहिसीओ० तंजहा-विजया वेजयंती जयंती अपराजिया, तेसिपि तहेव । (सू० २०४) 'जंबूदीवे णं भंते ! दीवे'इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे तारायास्ताराया एतदन्तरं कियबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम ४ द्विविधमन्तरं प्रज्ञप्तं, तद्यथा-व्याघातिमं निर्व्याघातिमं च, व्याहननं व्याघात:-पर्वतादिस्खलनं तेन निर्वृत्तं व्याघातिमं 'भावादिम'
इति इमप्रत्ययः, निर्व्याघातिम-व्याघातिमान्निर्गतं स्वाभाविकमित्यर्थः, तत्र यन्निाघातिमं तजघन्येन पञ्च धनुःशतानि उत्कर्षतो द्वे गव्यूते, तत्र यद् व्याघातिमं तजघन्येन द्वे योजनशते 'षट्पष्टे षट्षष्ट्यधिके, एतच निषधकूटादिकमपेक्ष्य वेदितव्यं, तथाहिनिषधपर्वतः स्वभावादप्युच्चैश्चत्वारि योजनशतानि तस्योपरि पञ्च योजनशतोच्चानि कूटानि, तानि च मूले पञ्च योजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपर्यर्द्धतृतीयानि योजनशतानि, तेषां चोपरितनभागसमश्रेणिप्रदेशे तथाजगत्स्वाभाव्यादृष्टावष्टौ योजनान्युभयतोऽबाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जघन्यतो व्याघातिममन्तरं द्वे योजनशते षषष्ट्यधिके भवति, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्वाचत्वारिंशदधिके, एतच्च मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेहदश योजनसहस्राणि मेरोश्चोभयतोऽबाधया एकादश योजनशतान्येकविंशत्यधिकानि, तत: सर्वसङ्ख्यामीलने द्वादश योजनसहस्राणि
द्वे च योजनशते द्वाचत्वारिंशदधिके, क्वचित्सर्वत्र 'वाघाइए निव्वाघाइए' इति पाठस्तत्र व्याघातो-यथोक्तरूपोऽस्यास्तीति व्याघातिद्र कम्, 'अतोऽनेकस्वरादिति मत्वर्थीय इकप्रत्ययः, व्याघातिकान्निर्गतं निर्व्याघातिकमिति ॥ 'चंदस्स णं भंते !' इत्यादि, चन्द्रस्य
भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य 'कति' कियत्सङ्ख्याका अग्रमहिष्यः प्रज्ञप्ता:?, भगवानाह-गौतम! चतस्रोऽप्रमहिष्यः प्रज्ञप्ताः,
Jain Education in
For Private Personal Use Only