SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ ACC ALSOC0AMROSA 594545 _ 'अत्थि णं भंते ! चंदिमसूरियाण'मित्यादि, अस्ति भदन्त ! चन्द्रसूर्याणां सामान्यतो बहुवचनं, हिटुिंपि-क्षेत्रापेक्षयाऽधस्तना अपि P'तारारूपाः' तारारूपविमानाधिष्ठातारो देवा द्युतिविभवलेश्यादिकमपेक्ष्य केचिदणवोऽपि हीना अपीयर्थः, केचित्तुल्या अपि, तथा स४ ममपि चन्द्रविमानैः सूर्यविमानैश्च क्षेत्रापेक्षया समश्रेण्यपि व्यवस्थितास्तारारूपाः देवा: ताश्चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अपि तथा चन्द्रविमानानां सूर्यविमानानां चोपर्यपि ये व्यवस्थितास्तारारूपा देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अपि ?, भगवानाह–'हन्ता अत्थि' यदेतत्त्वया पृष्टं तत्सर्वं तथैवास्ति ॥ एवमुक्ते पुनः प्रश्नयति-से केणटेणं भंते ! एवं वुच्चति अस्थि णं चंदिमसूरियाण'मित्यादि, भगवानाह-गौतम ! 'जहा जहाण'मित्यादि, | यथा यथा णमिति वाक्यालङ्कारे तेषां देवानां तारारूपविमानाधिष्ठातृणां प्राग्भवे तपोनियमब्रह्मचर्याणि 'उत्सृतानि' उत्कृष्टानि भवन्ति, तत्र तपो-नमस्कारसहितादि नियमस्तु-अहिंसादि ब्रह्मचर्य-बस्तिनिरोधादि उत्सृतानीत्युपलक्षणं तेन यथा यथाऽनुत्सृतान्यपि द्रष्टव्यं, अन्यथाऽणुत्वायोगात् , तथा तथा तेषां देवानां तस्मिन् तारारूपविमानाधिष्ठातृभवे एवं प्रज्ञायते, तद्यथा-अणुत्वं तुल्यत्वं चेति, 'से| एएणटेण'मित्यादि, किमुक्तं भवति ?-यैः प्राग्भवे तपोनियमब्रह्मचर्याणि मन्दानि कृतानि ते तारारूपविमानाधिष्ठातृदेवभवमनुप्रापाश्चन्द्रसूर्येभ्यो देवेभ्यो द्युतिविभवादिकमपेक्ष्य हीना भवन्ति, यैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि अत्युत्कटान्यासेवितानि ते तारारूपविमानाधिष्ठातृरूपं देवभवमनुप्राप्ता द्युतिविभवादिकमपेक्ष्य चन्द्रसूर्यदेवैः सह समाना भवन्ति, न चैतदनुपपन्नं, दृश्यन्ते हि मनुष्यलोके केचित् जन्मान्तरोपचिततथाविधपुण्यप्राग्भारा राजत्वमप्राप्ता अपि राज्ञा सह तुल्यविभवा इति ।। 'एगमेगस्त णं भंते ! |चंदिमसूरियस्से'यादि, एकैकस्य भदन्त ! चन्द्रसूर्यस्य, अनेन च पदेन यथा नक्षत्रादीनां चन्द्रः स्वामी तथा सूर्योऽपि, तस्यापी 6 R KAC% %A4% A Jain Education Intel For Private & Personal Use Only A ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy