________________
Jain Education Inte
ण पासति एवंसुमं च णं गढ़िया ३, देवे णं भंते! महिडीए पुव्वामेव वालं अच्छेत्ता अभेत्ता पभू दीहिकरित्त वा हस्सीकरित्तए वा ?, नो तिणट्ठे समट्ठे ४, एवं चत्तारिवि गमा, पढमबिइयभंगेसु अपरियाइत्ता एगंतरियगा अच्छेत्ता अभेत्ता, सेसं तहेव, तं चैव सिद्धिं छउमत्थे ण जाणति ण पासति एहुमं च णं दीहिकरेज वा हस्सीकरेज वा ॥ ( सू० १९२ )
'देवे णं भंते!' इत्यादि, देवो भदन्त ! महर्द्धिकः यावत्कारणात् महाद्युतिको महाबलो महायशा महानुभाग इति परिग्रहः एषां व्याख्यानं पूर्ववत्, पूर्वमेव 'पुद्गलं' लेट्ादिकं प्रयत्नेनेति गम्यते क्षिप्त्वा 'प्रभुः' समर्थस्तमेव पुद्गलं क्षिप्तं भूमावपतितं सन्तम् 'अनुपरिवर्त्य' प्रादक्षिण्येन परिभ्रम्य ग्रहीतुम् ?, भगवानाह - हन्त ! प्रभुः, देवस्य प्रभूतशक्तिकत्वात् ॥ एतदेव जिज्ञासिषुः पृच्छति - 'से केणट्टेणं भंते!' इत्यादि, (प्रश्नसूत्रं सुगमं ) भगवानाह - गौतम ! पुद्गलः क्षिप्तः सन् पूर्वमेव शीघ्रगतिर्भवति प्रयत्नजनितसंस्कारस्यातितीव्रत्वात् पश्चान्मन्दगति: संस्कारस्य मन्दमन्दतया भवनात् देवः पुनः पूर्वमपि पश्चादपि च शीघ्र उत्साह विशेषेण शीघ्रगतिः साक्षाच्छीघ्रगमनेन, एतदेव व्याचष्टे - त्वरितस्त्वरितगतिर्भवतीति, 'से एएणद्वेण 'मित्याद्युपसंहारवाक्यं गतार्थम् ॥ 'देवे णं भंते!" इत्यादि, देवो भदन्त ! महर्द्धिको यावन्महानुभागो बाह्यान् पुद्गलान् 'अपर्यादाय' अगृहीत्वा बालं अच्छित्त्वा अभित्त्वा तदवस्थमेव सन्तमिति भावः तच्छरीरस्य मनागपि विक्रियामनापाद्येति तात्पर्यार्थः प्रभुः 'ग्रन्थयितुं' दृढबन्धनबद्धीकर्तुम् ?, भगवानाह - नायमर्थः समर्थः, बाह्यपुद्गलानादानेन तच्छरीरस्य मनागपि विक्रियानापादने बन्धनस्य कर्तुमशक्यत्वात् एतेन देवोऽप्यनिव - न्धनां क्रियां न करोति, विशिष्टसामर्थ्यस्यापि निबन्धनविषयत्वादित्यावेदितं । द्वितीयसूत्रे बालं छित्त्वा भित्त्वेति विशेषः, शेषं तथैव,
For Private & Personal Use Only
jainelibrary.org