SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ जी० ६३ Jain Education Inte एवतिया दीवसमुद्दा उद्धारसमएणं पन्नत्ता ॥ ( सू० १८९) दीवसमुद्दा णं भंते! किं पुढविपरिणामा आउपरिणामा जीवपरिणामा पुग्गलपरिणामा ?, गोयमा ! पुढविपरिणामावि आउपरिणामावि जीवपरिणामावि पुग्गलपरिणामावि || दीवसमुद्देसु णं भंते! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववण्णपुव्वा ?, हंता ! गोयमा ! असति अदुवा अणतखुत्तो (सू० १९० ) इति दीवसमुद्दा समत्ता ॥ 'केवइया णं भंते!' इत्यादि, कियन्तो भदन्त ! द्वीपसमुद्रा नामधेयैः प्रज्ञप्ताः ?, यदि नाम सङ्ख्यातुमिष्यन्ते तदा प्रज्ञप्ता इत्यर्थः इयमत्र भावना - इहैकैकेन नानाऽसङ्ख्येया द्वीपा असङ्ख्येयाः समुद्राः प्रोच्यन्ते अन्तिमान् देवादीन् पञ्च द्वीपान् पञ्च समुद्रान् मुक्त्वा, ततः सर्वसङ्ख्यया कियन्ति द्वीपसमुद्राणां नामानि ? इति, भगवानाह - गौतम ! यावन्ति लोके सामान्यत: 'शुभानि नामानि' शङ्खचक्रस्वस्तिक कलश श्रीवत्सादीनि 'शुभा वर्णाः शुभा गन्धाः शुभा रसाः शुभाः स्पर्शाः' शुभवर्णनामानि शुभगन्धनामानि शुभरसनामानि शुभस्पर्शनामानि एतावन्तो द्वीपसमुद्रा नामधेयैः प्रज्ञप्ताः, एतावन्ति द्वीपसमुद्राणां नामधेयानीति भावः ॥ सम्प्रत्युद्धारसागरोपमप्रमाणतो द्वीपसमुद्रपरिमाणमाह – 'केवइया णं भंते!' इत्यादि कियन्तो भदन्त ! द्वीपसमुद्राः 'उद्धारेण' उद्वारपल्योपमसागरोपमप्रमाणेन प्रज्ञप्ता: ?, भगवानाह - हे गौतम! यावन्तोऽर्द्धतृतीयानामुद्धारसागरोपमाणां उद्धारसमयाः - एकैकेन (क) सूक्ष्मवालाप्रापहारसमया एतावन्तो द्वीपसमुद्रा उद्धारेण प्रज्ञप्ताः, उक्तञ्च – “उद्धारसागराणं अड्डाइज्जाण जत्तिया समया । दुगुणादु - गुणपवित्थर दीवोदहि रज्जु एवइया ॥ १ ॥" "दीवसमुद्दा णं भंते!' इत्यादि । द्वीपसमुद्रा णमिति पूर्ववत् भदन्त । किं पृथिवीपरि For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy