SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० ॥ ३६३ ॥ तोरणवर्णनं च प्राग्वत् । इदमन्यदधिकं पुस्तकान्तरे दृश्यते— 'तासि णं पुक्खरिणीणं चउद्दिसिं चत्तारि वणसंडा पण्णत्ता, तंजहा - पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं- “पुत्रेण असोगवणं दाहिणतो होइ चंपगत्रणं तु (सत्तपण्णवणं ) । अवरेण चंपगवणं मलयगि- चूयवणं उत्तरे पासे ॥ १ ॥" "तेसु ण' मित्यादि तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् गुलिकासहस्राणि, गुलिका:-पीरीयावृत्तिः ४ ठिका अभिधीयन्ते, ताश्च मनोगुलिकापेक्षया प्रमाणतः क्षुल्लास्तासां सहस्राणि गुलिकासहस्राणि प्रज्ञप्तानि तद्यथा - पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उत्तरस्यामष्टौ सहस्राणि । 'तासु णं गुलियासु बहवे सुवण्णरूप्पामया फलगा पन्नत्ता' इत्यादि विजयदेवराजधानीगत सुधर्मासभायामिव वक्तव्यं यावद्दामवर्णनं ॥ ' तेसु ण' मित्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् मनोगुलिकासहस्राणि प्रज्ञप्तानि, गुलिकापेक्षया प्रमाणतो महतीतराः, तद्यथा- पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उत्तरस्यामष्टौ सहस्राणि एतावपि फलकनागदन्तकमात्यदामवर्णनं प्राग्वत् || 'तेसु णं सिद्धायतणेसु' इत्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशोमानुष्यः - शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि तद्यथा - पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ उत्तरस्यामष्टौ सहस्राणि तास्वपि फलकवर्णनं नागदन्तवर्णनं सिक्ककवर्णनं धूपघटिकावर्णनं प्राग्वत् ॥ 'तेसि णं सिद्धायतणाण' मित्यादि उल्लोकवर्णनमन्तर्थहुसमरमणीय भूमिभागवर्णनं शब्दवर्ज प्राग्वत् ॥ 'तेसि णं बहुसमरमणिजाणं भूमिभागाण' मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका: षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमय्यो यावत्प्रतिरूपकाः ॥ 'तासि ण' मित्यादि, तासां च मणिपीठिकानामुपरि Jain Education Inter For Private & Personal Use Only ३ प्रतिपत्तौ नन्दीश्वराधिकारः उद्देशः २ सू० १८३ ॥ ३६३ ॥ inelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy