________________
4AGGAOCCURRENORMANCER
प्रत्येकं २ देवच्छन्दकः प्रज्ञप्तः, ते च देवच्छन्दकाः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूईमुच्चैस्त्वेन सर्वासना रत्नमया अच्छा यावत्प्रतिरूपाः 'तेसु णमित्यादि, तेषु देवच्छन्दकेषु प्रत्येक २ मष्टशतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामित्यर्थः सन्निक्षिप्तं तिष्ठति, प्रतिमावर्णनादि विजयदेवराजधानीगतसिद्धायतनवत्तावद्वक्तव्यं यावदष्टशतं धूपकडुच्छुकानाम् ॥ 'तेसि णमित्यादि. तेषां सिद्धायतनानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा | यावदहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ।। 'तत्थ णमित्यादि, तत्र तेषु चतुर्व जनपर्वतेषु मध्ये योऽसौ पूर्वदिग्भावी अञ्जनकपर्वतस्तस्य 'चतुर्दिशि चतसृषु दिक्षु एकैकस्यां दिशि एकैकनन्दापुष्करिणीभावेन चतस्रो नन्दापुष्करिण्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि नन्दिषेणा दक्षिणस्याममोघा अपरस्यां गोस्तूपा उत्तरस्यां सुदर्शना, ताश्च पुष्करिण्य एकं योजनशतस-| हस्रमायामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके त्रीणि गव्यूतानि अष्टाविंशं धनुःशतं त्रयोदशाङ्गुलानि अर्धाङ्गुलं च किञ्चिद्विशेषाधिक परिक्षेपेण प्रज्ञप्ताः, दश योजनान्युद्वेधेन, 'अच्छाओ सहाओ रययामयकूलाओं इत्यादि जगत्युपरिपुष्करिणीवन्निरवशेषं वक्तव्यं नवरं 'वढाओ समतीराओ खोदोद्गपडिपुण्णाओं' इति विशेष:, ताश्च प्रत्येक प्रत्येक पद्मवरवेदिकया वनखण्डेन च परिक्षिप्ताः, अत्रापीदमन्यद्धिकं पुस्तकान्तरे दृश्यते-'तासि णं पुक्खरिणीणं पत्तेयं पत्तेयं चउद्दिसि चत्तारि वणसंडा पण्णत्ता तंजहा-पुरच्छिमेणं दाहिणेणं अवरेणं उत्तरेणं, पुव्वेण असोगवणं जाव चूयवणं उत्तरे पासे' एवं शेषाज-IX नपवेतसम्बन्धिनीनामपि नन्दापुष्करिणीनां वाच्यम ॥'तासि ण'मित्यादि, तासां पुष्करिणीनां बहुमध्यदेशभागे प्रत्येकं २ दधिमुखनामा पर्वतः प्रज्ञप्तः, 'ते णमित्यादि, ते दधिमुखपर्वताश्चतुःषष्ठियोजनसहस्राणि ऊर्द्ध मुच्चैस्त्वेन एकं योजनसहस्रमुढेधेन सर्वत्र
AGACACAKACTICALARAMCN
Jain Education Intern
For Private & Personel Use Only
Enelibrary.org