SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ COCOGEOGAORATORS मणिमय्योऽच्छा यावत्प्रतिरूपाः ॥ 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यवृक्षः प्रज्ञप्तः, ते च चैत्यवृक्षा अष्टौ योजनान्यूर्द्धमुच्चैस्त्वेन अर्द्धयोजनमुद्वेधेन द्वे योजने उच्चैस्त्वेन स्कन्धः स एवार्द्धयोजनं विष्कम्भेन यावद्वहुमध्यदेशभागे ऊर्द्ध विनिर्गता शाखा-विडिमा सा षड़ योजनान्यूद्धमुच्चैस्त्वेन, साऽपि चार्द्धयोजनं विष्कम्भेन, सर्वाग्रेण सातिरेकाण्यष्टौ योजनानि प्र-16 ज्ञप्ता । 'तेसि णमयमेयारूवे वण्णावासे पण्णत्ते' इत्यादि चैत्यवृक्षवर्णनं विजयराजधानीगतचैत्यवृक्षवद्भावनीयं यावल्लतावर्णनमिति ॥ 'तेसि णमित्यादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तावद् यावत्सहस्रपत्रहस्तकाः सर्व-13 रत्नमया अच्छा यावत्प्रतिरूपाः ॥ 'तेसि ण'मित्यादि, तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाIN अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा यावत्प्रतिरूपाः ॥ 'तासि 'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ महेन्द्रध्वजः प्रज्ञप्तः, ते च महेन्द्रध्वजाः षष्टियोंजनान्यूर्द्धमुच्चैस्त्वेन योजनमुद्वेधेन योजनं वि-1४ कम्भेन वनमया इत्यादि वर्णनं विजयदेवराजधानीगतमहेन्द्रध्वजवद्वेदितव्यं यावत्तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ।। 'तेसि ण'मित्यादि, तेषां महेन्द्रध्वजानां पुरतः प्रत्येक प्रत्येकं नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, 'ताओ नंदाओ पुक्खरिणीओ' इत्यादि, ताश्च नन्दापुष्करिण्य एकैकं योजनश-18 तमायामविष्कम्भाभ्यां पञ्चाशद् योजनानि विष्कम्भेन दश योजनान्युद्वेधेन 'अच्छाओ सण्हाओ रययमयकूलाओं इत्यादि पुष्क|रिणीवर्णनं जगत्युपरिपुष्करिणीवद्वक्तव्यं नवरं 'खोदरसपडिपुण्णाओ' इति वक्तव्यं, ताश्च नन्दापुष्करिण्यः प्रत्येक प्रत्येकं पद्मवर|वेदिकया प्रत्येक प्रत्येक वनखण्डेन च परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां वर्णनं SASR9454643 Jain Education Interno For Private Personel Use Only Mainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy