SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ याएँ मीसिया नीलिया चउत्थीए पंचमियाए। मीसा कण्हा तत्तो परमकण्हा ॥ १॥” इन्द्रियद्वारे पञ्च इन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानि । समुद्घातद्वारे चत्वारः समुद्घाता:-वेदनासमुद्घात: कषायसमुद्घातो वैक्रियसमुद्घातो मारणान्तिकसमुद्घातश्च । सब्जिद्वारे सज्ञिनोऽसब्जिनश्च, तत्र ये गर्भव्युत्क्रान्तिकेभ्य उत्पन्नास्ते सब्जिन इति व्यपदिश्यन्ते, ये तु संमूच्र्छनजे भ्यस्तेऽसञ्जिनः, ते च रत्नप्रभायामेवोत्पद्यन्ते न परतः, अनाशयाशुभक्रियाया दारुणाया अप्यनन्तरविपाकिन्या एतावन्मात्रफलत्वात् , दअत एवाहुवृद्धा:-"अस्सन्नी खलु पढमं दोचं व सिरीसवा तइय पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमि पुढवि ॥१॥ छट्टिं य इत्थियाओ मच्छा मणुया य सत्तमि पुढविं । एसो परमोवाओ बोद्धव्वो नरयपुढवीसु ॥२॥" वेदद्वारे नपुंसकवेदाः ।। पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चापर्याप्तयः । दृष्टिद्वारे त्रिविधदृष्टयोऽपि, तद्यथा-मिध्यादृष्टय: सम्यग्दृष्टयः सम्यग्मिध्यादृष्टयश्च, दर्शनद्वारे त्रीणि दर्शनानि, तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं च । ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, येऽत्राज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एष चात्र भावार्थ:-ये नारका असञ्जिनस्तेऽपर्याप्तावस्थायां व्यज्ञानिनः पर्याप्तावस्थायां तु यज्ञानिन: सब्जिनस्तूभय्यामप्यवस्थायां व्यज्ञानिनः, असज्ञिभ्यो ह्युत्पद्यमानास्तथाबोधमान्द्यादपर्याप्तावस्थायां नाव्यक्तमप्यवधिमाप्नुवन्तीति । योगोपयोगाहारद्वाराणि प्रतीतानि । उपपातो यथा व्युत्क्रान्तिपदे प्रज्ञापनायां तथा वक्तव्यः, पर्याप्तपञ्चेन्द्रियतिर्यग्मनुष्येभ्योऽसङ्ख्यातवर्षायुष्कवर्जेभ्यो वक्तव्यो, 49*CA-%A4%%%ARA | १ असंज्ञिनः खलु प्रथमा द्वितीयां च सरीसृपास्तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी उरगाः पुनः पञ्चमी पृथ्वीम् ॥१॥ षष्टी च त्रियः मत्स्या मनुष्याश्च | सप्तमी पृथ्वीम् । एष परम उत्पादो बोद्धव्यो नरकपृथ्वीषु ॥२॥ Jain Education Nha For Private Personal use only .jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy