________________
प्रतिपत्ता नारकाः सू० ३२
श्रीजीवा-गावसिद्धान्तसारो वावदूकः सिद्धान्तबाहुल्यमात्मनः ख्यापयन्नेवं प्रललाप-"सुत्ते सत्तिविसेसो संघयणमिहऽट्ठिनिचयो"ति, इति सोपा-1
कीणों द्रष्टव्यः, साक्षादत्रैव सूत्रे अस्थिनिचयामकस्य संहननस्याभिधानात्, अस्थ्यभावे संहननप्रतिषेधादिति । अपरस्त्वाह-नैरयिकामलयगि- णामस्थ्यभावे कथं शरीरबन्धोपपत्ति: १, नैष दोषः, तथाविधपुद्गलस्कन्धवत् शरीरबन्धोपपत्तेः, अत एवाह-'जे पोग्गला अणिहा' रीयावृत्तिः | इत्यादि, ये पुद्गला: 'अनिष्टाः' मनस इच्छामतिकान्ताः, तत्र किञ्चित्कमनीयमपि केषाञ्चिदनिष्टं भवति तत आह-न कान्ता: अ-18
कान्ता-अकमनीयाः, अत्यन्ताशुभवर्णोपेतत्वात् , अत एव न प्रियाः, दर्शनापातकालेऽपि न प्रियबुद्धिमालन्युत्पादयन्तीति भावः, ॥३४॥
'अशुभा:' अशुभरसगन्धस्पर्शालकत्वात् , 'अमनोज्ञाः' न मनःप्रहादहेतवो, विपाकतो. दुःखजनकत्वात् , अमनापा:-न जातुचिदपि भोज्यतया जन्तूनां मनास्याप्नुवन्तीति भावः, ते तेषां 'सङ्घातत्वेन' तथारूपशरीरपरिणतिभावेन परिणमन्ति । संस्थानद्वारे तेषां शरीराणि भवधारणीयानि उत्तरवैकुर्विकाणि च हुण्डसंस्थानानि वक्तव्यानि, तथाहि-भवधारणीयानि तेषां शरीराणि भवस्वभावत एव निर्मूलविलुप्तपक्षोत्पाटितसकलग्रीवादिरोमपक्षिशरीरकवदतिबीभत्सहुण्डसंस्थानोपेतानि, यान्यप्युत्तरवैक्रियाणि तानि यद्यपि शु|भानि वयं विकुर्विष्याम इत्यभिसन्धिना विकुर्वितुमारभन्ते तथाऽपि तानि तेषामत्यन्ताशुभतथाविधनामकर्मोदयतोऽतीवाशुभतराण्युप-| जायन्ते इति तान्यपि हुण्डसंस्थानानि । कषायद्वारं सज्ञाद्वारं च प्राग्वत्, लेश्याद्वारे आद्यास्तिस्रो लेश्याः, तत्राद्ययोर्द्वयोः पृथिव्योः कापोतलेश्या, तृतीयस्यां पृथिव्यां केषुचिन्नरकावासेषु कापोतलेश्या शेषेषु नीललेश्या, चतुर्थ्यां नीललेश्या, पञ्चम्यां केषुचिन्नरकावासेषु नीललेश्या, शेषेषु कृष्णलेश्या, षष्ठयां कृष्णलेश्या, सप्तम्यां परमकृष्णलेश्या, उक्तश्च व्याख्याप्रज्ञप्तौ-"काऊ य दोसु तइ
१ कापोती च द्वयोस्तृतीयस्यां मिश्रा नीला चतुर्थ्यो । पञ्चम्या मिश्रा कृष्णा ततः परमकृष्णा ॥१॥
॥३४॥
Join Education
For Private & Personal use only
jainelibrary.org