________________
Jain Education Int
सुगमं नवरं भवप्रत्ययादेव तेषां शरीरं वैक्रियं नौदारिकमिति वैक्रियतैजसकार्मणानि त्रीणि शरीराण्युक्तानि । अवगाहना तेषां द्विधा - | भवधारणीया उत्तरवैकुर्विकी च, तत्र यया भवो धार्यते सा भवधारणीया, बहुलवचनात्करणेऽनीयप्रत्ययः, अपरा भवान्तरवैरिनारकप्रतिघातनार्थमुत्तरकालं या विचित्ररूपा वैक्रयिकी अवगाहना सा उत्तरवैकुर्विकी, तत्र या सा भवधारणीया सा जघन्यतोऽङ्गुलायेयभागः, स चोपपातकाले वेदितव्यः, तथाप्रयत्नभावात् उत्कर्षतः पञ्चधनुःशतानि, इदं चोत्कर्षतः प्रमाणं सप्तमपृथिवीमधिकृत्य वेदितव्यं, प्रतिपृथिवि तूत्कर्षतः प्रमाणं सङ्ग्रहणिटीकातो भावनीयं तत्र सविस्तरमुक्तत्वात्, उत्तरवैकुर्विकी जघन्यतोऽङ्गुलसङ्ख्येयभागो न त्वसङ्ख्येयभागः, तथाप्रयत्नाभावात् उत्कर्षतो धनुः सहस्रमिति, इदमप्युत्कर्षपरिमाणं सप्तमनरक पृथिवीमधिकृत्य वेदितव्यं प्रतिपृथिवि तु सङ्ग्रहणिटीकातः परिभावनीयं, संहननद्वारे 'तेसि णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! षण्णां संहननानामन्यतमेनापि संहननेन तेषां शरीराण्यसंहननानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् कस्मादसंहननानि ? इति चेद् अत आह— 'नेवट्ठी' इत्यादि, नैव तेषां शरीराणामस्थीनि, नैव शिरा-धमनिनाड्यो, नापि स्नायूनि-शेषशिराः, अस्थिनिचयात्मकं च संहननमतोऽ| स्ध्याद्यभावादसंहननानि शरीराणि, इयमत्र भावना - इह तत्त्ववृत्त्या संहननमस्थिनिचयात्मकं यत्तु प्रागे केन्द्रियाणां सेवार्त्तसंहननमभ्यधायि तदौदारिकशरीरसम्बन्धमात्रमपेक्ष्यौपचारिकं देवा अपि यदन्यत्र प्रज्ञापनादौ वज्रसंहननिन उच्यन्ते तेऽपि गौणवृत्त्या, तथाहि-इह यादृशी मनुष्यलोके चक्रवर्त्त्यादेर्विशिष्टवर्षभनाराचसंहननिनः सकलशेषमनुष्यजनासाधारणा शक्ति: " दोसोला बत्तीसा सव्ववलेणं तु संकलनिबद्ध” मित्यादिका, ततोऽधिकतरा देवानां पर्वतोत्पाटनादिविषया शक्ति: श्रूयते न च शरीरपरिक्लेश इति तेऽपि वज्रसंहननिन इव वज्रसंहननिन उक्ता न पुनः परमार्थतस्ते संहननिनः, ततो नारकाणामस्ध्यभावात्संहननाभावः, एतेन योऽपरिणत भग
For Private & Personal Use Only
jainelibrary.org