________________
नामणिरत्नानि' नानामणिरत्नमयानि व्यालकरूपाणि लीलास्थितशालभञ्जिकाश्च येषां तानि तथा रजतमया: कूटाः कूटो - माडभाग:, वज्रमया: 'उत्सेधाः ' शिखराणि तपनीयमया: 'उल्लोकाः' उपरितनभागाः, मणयो-मणिमया वंशा येषां तानि मणिवंशकानि, लोहिताक्षा: - लोहिताक्षमया: प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि, रजता - रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतत्वात्समासान्तो मकारस्य च द्वित्वं मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नमयानि जालपञ्जराणि गवाक्षापरपर्यायाणि येषु द्वारेषु तानि तथा पदानामन्यथोपनिपातः प्राकृतत्वात् अङ्कमयाः पक्षाः पक्षवाहवश्च पक्षाः ( प्रतीताः ) पक्षवाहवोऽपि तदेकदेशभूताः, ज्योतीरसामया वंशा महान्तः पूज्यवंशाः 'वंसकवेल्लया य' महतां पृष्ठवंशानामुभयतस्तिर्य कृस्थाप्यमाना वंशाः वंशकवेल्लुकानि प्रतीतानि रजतमयपट्टिकाः कवेछुकानामुपरिकम्बास्थानीयाः जातरूपमय्योऽवघाटिन्यः आच्छादन हेतु कम्बोपरिस्थाप्यमानमहाप्रमाण किलिभ्वस्थानीया वज्रमय्योऽवघाटिनीनामुपरिपुञ्छन्यो - निविडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेलुकानामध आच्छादनम्, 'अंकामयकणगकूडत वणिज्जथुभियागा' इति अङ्कमयानि - बाहुल्येनाङ्करत्नमयानि पक्षपक्षबाह्लादीनामङ्करत्नात्मकत्वात् कनकं - कनकमयं कूटं - शिखरं येषां तानि कनककूटानि, तपनीयाः - तपनीयमय्यः स्तूपका - लघुशिखररूपा येषां तानि तथा ततः पत्रयस्य पदद्वय २ मीलनेन कर्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं 'सेया वरकणगथूभियागा' इति तदेव प्रपञ्चतो भावितं सम्प्रति तदेव श्वेतत्वं भूय उपसंहारव्याजेन दर्शयति- 'सेया' श्वेतत्वमेवोपमया द्रढयति* 'सङ्घदल विमलनिम्मलदहिघण गोखीरफेणरयय निगरप्पगासद्धचंदचित्ता' विमलं यत् शङ्खदलं- शङ्खशकलं कचित् शङ्खतलेतिपाठस्तत्र शङ्खतलं - शङ्खस्योपरितनो भागो यश्च निर्मलो दधिघनो- घनीभूतं दधि यश्च गोक्षीरफेनो यश्च रजतनिकरस्तद्वत्प्रकाशः -प्र
Jain Educationtional
For Private & Personal Use Only
www.jainelibrary.org