________________
जी० ६०
Jain Education Int
पतापित:, तदानामद्वार: (उद्दावः ) - स्थानान्तरेष्वद्याप्यसङ्क्रामितः सद्योविस्यन्दितः- तत्कालनिष्पादितो विश्रान्तः - उपशान्तकचवरः सल्लकीकर्णिकार पुष्पवर्णाभो वर्णेनोपपेतो गन्धेन रसेन स्पर्शेनोपपेत आस्वादनीयो विस्वादनीयो दीपनीयो मदनीयो बृंहणीयः सर्वेन्द्रियगात्रप्रह्लादनीयः एवमुक्ते गौतम आह— 'भवे एयारूवे' भवेद् घृतोदस्य समुद्रस्योदकमेतद्रूपं ?, भगवानाह - नायमर्थः समर्थः घृतोदस्य यस्मात्समुद्रस्योदकम् ' इतः' यथोक्तस्वरूपाद् घृतादिष्टतरमेव यावन्मन आपतरमेवास्वादेन प्रज्ञप्तं, कान्तसुकान्तौ च यथाक्रमं पूर्वार्द्धपश्चिमार्द्धाधिपती अत्र घृतोदे समुद्रे महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः, ततो घृतमिवोदकं यस्यासौ घृतोदः, तथा चाह - 'से एएणट्टेण' मित्यादि सुगमं, चन्द्रादिसङ्ख्यासूत्रमपि सुगमम् || 'घतोदण्ण' मित्यादि, घृतोदं णमिति वाक्यालङ्कारे समुद्रं क्षोदवरो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, चक्रवालविष्कम्भपरिक्षेपद्वारादिवक्तव्यता तथैव याव जीवोपपातसूत्रम् ॥ सम्प्रति नामान्वर्थमभिधित्सुराह – 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदवरो द्वीपः २ १ इति, भगवानाह - गौतम ! क्षोदवरे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बहवे खुड्डाखुड्डियाओ वावीओ' इत्यादि पूर्ववत्तावद्वक्तव्यं यावद् 'वाणमंतरा देवा देवीओ य आसयंति सयंति जाव विहरंति' नवरं वाप्यादयः क्षोदोदकपरिपूर्णा इति वक्तव्यं, तथा पर्वतकाः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वात्मना वैडूर्यमयाः प्रज्ञप्ताः, सुप्रभमहाप्रभौ च यथाक्रमं पूर्वार्घापरार्द्धाधिपती द्वौ देवावत्र क्षोदवरे द्वीपे महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः, ततः क्षोदोदकवाप्यादियोगात्क्षोदवरः स द्वीपः, एतदेवाह - 'से एएणट्टेण' मित्यादि, चन्द्रादिसूत्रं प्राग्वत् ॥ 'खोयवरणं दीव मित्यादि, क्षोदवरं णमिति पूर्ववद् द्वीपं क्षोदोदो नाम समुद्रो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवाल
For Private & Personal Use Only
jainelibrary.org