________________
श्रीजीवा
जीवाभि०
॥ ३५५ ।।
विष्कम्भादिवक्तव्यता पूर्ववद् यावज्जीवोपपातसूत्रम् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह - ' से केणद्वेग' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदोदः समुद्रः २ १ इति, भगवानाह - क्षोदोदस्य समुद्रस्योदकं यथा नाम इक्षूणां जात्यानां जात्यत्वमेवाह - मलयगि- 5 'वरपुंडगाणं' विशिष्टानां पुण्ड्रदेशोद्भवानां हरितानां शाडुलानां 'भेरण्डेक्षूणां वा' भेरण्डदेशोद्भवानां वा इक्षूणां 'कालपोराणं'ति रीयावृत्तिः कृष्णपर्वणाम् उपरितनपत्रसमूहापेक्षया हरितालवत्पिञ्जराणाम् 'अपनीतमूलानाम्' अपनीतमूलत्रिभागानां त्रिभागनिर्वाटितवाटानां ऊर्द्धभागादपि त्रिभागहीनानामिति भावः मध्यत्रिभागावशेषाणामिति समुदायार्थः 'गंठिपरि सोहियाणं' ति ग्रन्थिः - पर्वप्रन्थिः शोधित:- अपनीतो येभ्यस्ते तथा तेषां मूलत्रिभागे उपरितनत्रिभागे पर्वग्रन्थौ च नातिसमीचीनो रस इति तद्वर्जनं क्षोदरसो भवेद् 'वस्त्रपरिपूत:' श्लक्ष्णवस्त्र परिपूतः चतुर्जातकेन सुष्ठु - अतिशयेन वासितश्चतुर्जातकवासितः, चतुर्जातकं त्वगेला केसराख्यगन्धद्रव्यमरिचात्मकं उक्तभ्व - "त्वगेला के सरैस्तुल्यं, त्रिसुगन्धं त्रिजातकम् । मरिचेन समायुक्तं, चतुर्जातकमुच्यते ॥ १ ॥" अधिकं-अतिशयेन पध्यं न रोगहेतुः लघुः - परिणामलघुः वर्णेन - सामर्थ्यादतिशायिना उपपेतः एवं गन्धेन रसेन स्पर्शेनोपपेत आस्वादनीयो दर्पणीयो मदनीयो बृंहणीयः सर्वेन्द्रियगात्रप्रह्लादनीयः एवमुक्ते गौतम आह— 'भवे एयारूवे' भवेद् भगवन् ! क्षोदोदसमुद्रस्योदकमेतद्रूपं ?, भगवानाह - गौतम ! नायमर्थः समर्थः, क्षोदोदस्य यस्मात्समुद्रस्योदकम् ' अस्मात् ' यथोक्तरूपात्क्षोदरसादिष्टतरमेव यावन्मनआपतरमेवास्वादेन प्रज्ञप्तम् इह प्रविरल पुस्तकेऽन्यथाऽपि पाठो दृश्यते सोऽप्येतदनुसारेण व्याख्येयो, बहुषु तु पुस्तकेषु न दृष्ट इति न लिखित:, पूर्णपूर्णप्रभौ च यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती 'अत्र' क्षोदोदे समुद्रे द्वौ देवौ महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, ततः क्षोद इव क्षोदरस इवोदकं यस्य स क्षोदोदः, तथा चाह - 'से एएणद्वेण' मित्यादि । चन्द्रादिसङ्ख्यासूत्रं प्राग्वत् ॥
For Private & Personal Use Only
Jain Education
३ प्रतिपत्तौ घृतवरघृतोदक्षोद
वरक्षो
दोदाः
उद्देशः २
सू० १८२
॥ ३५५ ।।
w.jainelibrary.org