SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ ३५४ ॥ Jain Education खोयरसस्स णं समुद्दस्स उदए एतो इतरए चेव जाव आसाएणं प० पुण्णभद्दमाणिभद्दा य (पुण्णपुण्णभद्दा ) इत्थ दुवे देवा जाव परिवसंति, सेसं तहेव, जोइसं संखेज्जं चंद्रा० ॥ (सू० १८२) 'खीरोदण्णं समुद्द'मित्यादि, क्षीरोदं णमिति पूर्ववत् समुद्रं घृतवरो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, अत्रापि चक्रवालविष्कम्भपरिक्षेपपद्मवर वेदिकावनषण्डद्वारान्तरप्रदेश जीवोपपातवक्तव्यता पूर्ववत् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह - 'से केणद्वेग'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-घृतवरो द्वीपो घृतवरो द्वीप: ?, भगवानाह - गौतम ! घृतवरे द्वीपे 'तत्थ तत्थ देते तहिं' इत्यादि, अरुणवरद्वीपवत्सर्वं तावद्वक्तव्यं यावत् 'वानमंतरा देवाय देवीओ य आसयंति सयंति यावद् विहति' इति, नवरं वाप्यादयो धृतोदकपरिपूर्णा इति वक्तव्याः, तथा पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथ्वीशिलापट्टकाः सर्वात्मना कनकमया इति वक्तव्यं, कनककनकप्रभौ चात्र देवौ यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः ततो घृतोदकवाप्यादियोगाद् घृतवर्णदेवस्वामिकत्वाच्च घृतवरो दीप इति, तथा चाह'से एएणट्टेण' मित्यादि चन्द्रादित्यादिसङ्ख्यासूत्रं प्राग्वत् ॥ 'घयवरण्णं दीव' मित्यादि, घृतवरं द्वीपं घृतोदो नाम समुद्रो वृत्तो वलयाकारसंस्थान संस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषं यथा घृतवरस्य द्वीपस्य यावज्जीवोपपातसूत्रम् ॥ इदानीं नामनिमित्तमभिधित्सुराह - ' से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-घृतोदः समुद्रो घृतोदः समुद्रः ? इति, भगवानाह - गौतम ! घृतोद्स्य समुद्रस्योदकं स यथा नाम सकललोकप्रसिद्धः 'शारदिकः' शरत्कालभावी गोघृतवरस्य मण्ड: - घृतसङ्घातस्य यदुपरिभागस्थितं घृतं स मण्ड इत्यभिधीयते सार इत्यर्थः तथा चाह मूलटीकाकार:- "घृतमण्डो घृतसार” इति, सुक्कथितो यथाऽग्निपरिता For Private & Personal Use Only ३ प्रतिपत्तौ | घृतवरघृतोदक्षोद रक्षो दोदाः उद्देशः २ सू० १८२ ॥ ३५४ ॥ www.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy