SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte पवत्सर्वं वक्तव्यं यावत् 'वाणमंतरा देवा देवीओ य आसयंति सयंति जाव विहति' नवरमत्र वाप्यादयः क्षीरोदपरिपूर्णा वक्तव्याः, पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वरत्नमया वाच्या: शेषं तथैव, पुण्डरीकपुष्पदन्तौ चात्र क्षीरवरे द्वीपे यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती द्वौ देवौ महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतस्ततो यस्मात्तत्र वाप्यादिपूदकं क्षीरतुल्यं क्षीरक्षीरप्रभौ च तदधिपती देवाविति स द्वीपः क्षीरवरः, तथा चाह - 'से एएणट्टेण' मित्याद्युपसंहारवाक्यं, चन्द्रादिसूत्रं प्राग्वत् ॥ ' खीरवरण्ण' मित्यादि, क्षीरवरं णमिति पूर्ववत् द्वीपं क्षीरोदो नाम समुद्रो वृत्तो वलयाकार संस्थानसंस्थित: सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषा वक्तव्यता क्षीरवरद्वीपस्येव वक्तव्या यावज्जीवोपपातसूत्रम् ॥ सम्प्रति नामनिमित्तमभिधित्सुराह - ' से केणद्वेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षीरोदः समुद्रः क्षीरोदः समुद्रः ? इति भगवानाह - गौतम ! क्षीरोदस्य समुद्रस्योदकं यथा राज्ञश्चक्रवर्त्तिनश्चातुरक्यं - चतुःस्थानपरिणामपर्यन्तं गोक्षीरं चतुःस्थानपरिणामपर्यन्तता च प्रागेव व्याख्याता, 'खण्डगुडमत्स्यण्डिकोपनीतं' खण्डगुडमत्स्यण्डिकाभिरतिशयेन प्रापितरसं प्रयत्नेन मन्दाग्निना कथितम्, अत्यग्निप रितापे वैरस्यापत्तेः, अत एवाह-वर्णेनोपपेतं गन्धेनोपपेतं रसेनोपपेतं स्पर्शेनोपपेतम्, आस्वादनीयं विस्वादनीयं दीपनीयं दर्पणीयं मदनीयं बृंहणीयं सर्वेन्द्रियगात्रग्रहादनीयमिति पूर्ववत्, एवमुक्ते गौतम आह- 'भवे एयारूवे' भवेत्क्षीरसमुद्रस्योदकमेतद्रूपम् ? | भगवानाह - गौतम ! नायमर्थः समर्थः, क्षीरोदस्य यस्मात्समुद्रस्योदकम् 'इतः' यथोक्तरूपात्क्षीरादिष्टतरमेव यावन्मन आपतरमेवास्वादेन प्रज्ञ, विमलविमलप्रभौ च यथाक्रमं पूर्वार्धपरार्द्धाधिपती द्वौ देवौ महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, ततः क्षीरमि For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy