SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ ३३९ ॥ Jain Education In वत्वाद् अपाकृत्य शेषस्य पञ्चदशभिर्भागे हृते ये चत्वारो भागा लभ्यन्ते ते द्वापष्टिशब्देनोच्यन्ते, अवयवे समुदायोपचारात्, एतच्च व्याख्यानमेतस्यैव चूर्णिमुपजीव्य कृतं न स्वमनीषिकया, तथा च तद्व्रन्थः - " चन्द्रविमानं द्वाषष्टिभागीक्रियते, ततः पञ्चदशभिर्भागोऽपहियते, तत्र चत्वारो भागा द्वाषष्टिभागानां पञ्चदशभागेन लभ्यन्ते शेषौ द्वौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुच्यत" इति, एवं च सति यत्समवायाङ्गसूत्रम् - "सुकपक्खस्स दिवसे दिवसे बावहिं बावडिं भागे परिवडुइ" इति, तद्ध्येवमेव व्याख्येयं संप्रदायवशाद्धि सूत्रं व्याख्येयं न स्वमनीषिकया, अन्यथा महदाशातनाप्रसक्तेः संप्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यद् - यस्मात्कारणाचन्द्रो द्वापष्टिद्वाषष्टिभागान्- द्वाषष्टिभागसत्कान् चतुरचतुरो भागान् यावत्परिवर्द्धते, कालेन - कृष्णपक्षेण पुनर्दिवसे २ तानेव द्वापष्टिभागसत्कान् चतुरश्चतुरो भागान 'प्रक्षपयति' परिहापयति, एतदेव व्याचप्रे - कृष्णपक्षे प्रतिदिवस राहुवि मानं स्वकीयेन पञ्चदशेन भागेन तं 'चन्द्र' चन्द्रविमानं पञ्चदशमेव भागं 'वृणोति' आच्छादयति, शुकपक्षे पुनस्तमेव प्रतिदिवसं पञ्चदशभागमासीयेन पञ्चदशेन भागेन 'व्यतिक्रामति' मुञ्चति, किमुक्तं भवति ? - कृष्णपक्षे प्रतिपद आरभ्यात्मीयेन पञ्चदशेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्र मण्डलमवस्थितमेव, तथा चाह एवं राहुविमानेन प्रतिदिवस क्रमेणानावरणकरणतो 'वर्द्धते' वर्द्धमानः प्रतिभासते चन्द्रः, एवं राहुविमानेन प्रतिदिवसं क्रमेणावरणकरणतः परिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैव 'अनुभावेन' कारणेनैकः पक्षः 'कालः' कृष्णो भवति यत्र च न्द्रस्य परिहानिः प्रतिभासते, एकस्तु 'ज्योत्स्नः' शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभास: ।। ' अन्तः' मध्ये 'मनुष्यक्षेत्रे' मनुष्यक्षेत्रस्य For Private & Personal Use Only ३ प्रतिपत्ता समयत्राधि० उद्देशः २ सू० १७७ ॥ ३३९ ॥ Jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy