________________
तथाहि-सर्वबाह्यमण्डले चारं चरतां सूर्याणां चन्द्रमसां च प्रत्येकं जम्बूद्वीपचक्रवालस्य दशधा प्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्र, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्द्धते, चन्द्रमसस्तु मण्डलेषु प्रत्येक पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं पड्विंशतिर्भागा: सप्तविंशतितमस्य च भागस्यैकः सप्तभागः, एवं च प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरमण्डले चारं चरतस्तदा प्रत्येक जम्बूद्वीपचक्रवालस्य त्रय: परिपूर्णा दशभागास्तापक्षेत्रं, तत: पुनरपि सर्वाभ्यन्तरमण्डलाद्वहिनिष्क्रमेण सूर्यस्य प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं षड्विंशतिर्भागा: सप्तविंशतितमस्य च भागस्य चैकः सप्तभाग इति ॥ तेषां' चन्द्रसूर्याणां तापक्षेत्रपन्थाः कलम्बुयापुष्प-नालिकापुष्पं तद्वत्संस्थिताः कलम्बुयापुष्पसंस्थिताः, एतदेव व्याचष्टे-अन्त:-मेरुदिशि सङ्कचिता बहि:लवणदिशि विस्तृताः, एतच्चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्तौ चतुर्थे प्राभृते सविस्तरं भावितमिति ततोऽवधार्यम् । सम्प्रति चन्द्रमसमधिकृत्य गौतमः प्रश्नयति-केन कारणेन शुक्लपक्षे वर्द्धते ? केन वा कारणेन चन्द्रस्य कृष्णपने परिहानिर्भवति ? केन वा 'अनुभावेन' प्रभावेण चन्द्रस्यैकः पश्नः कृष्णो भवति एकः 'ज्योत्स्नः' शुक्ल: ? इति, एवमुक्ते भगवानाह-इह द्विविधो राहुस्तद्यथा-पर्वराहुनित्यराहुश्च. तत्र पर्वराहुः स उच्यते य: कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति, अन्तरिते च कृते लोके ग्रहणमिति प्रसिद्धिः, स इह न गृह्यते, यस्तु नित्यराहुस्तस्य विमानं कृष्णं तथाजगत्स्वाभाव्याञ्चन्द्रेण सह 'नित्यं सर्वकालमविरहितं तथा 'चउरंगुलेन' चतुरङ्गुलैरप्राप्तं सत् 'चन्द्रस्य' चन्द्रविमानस्याधस्ताच्चरति, तञ्चैवं चरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति | चन्द्रमसं कृष्णपक्षे च शनैः शनैरावृणोति, तथा चाह-इह द्वापष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागावुपरितनौ सदाऽनाबार्यस्वभा
Jain Education
a
l
For Private & Personal Use Only
a.jainelibrary.org
IA