SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० - मलयगियावृत्तिः ।। ३३८ ॥ Jain Education विपाकं प्रपद्यन्ते, प्रपन्नविपाकानि शरीरनीरोगतासंपादनतो धनवृद्धिकरणेन च वैरोपशमनतः प्रियसंप्रयोगसंपादनतो वा यदिवा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिनः स्वल्पमपि प्रयोजनं शुभतिथिनक्षत्रादावारभंते न तु यथा कथश्वन, अत एव जिनानामपि भगवतामाज्ञा प्रत्राजनादिकमधिकृत्यैव मवर्त्तिष्ट-यथा शुभक्षेत्रे शुभदिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रत्राजननतारोपणादि कर्त्तव्यं नान्यथा, तथा चोक्तं पञ्चवस्तुके – “एसा जिणाण आणा / खेत्ताईया य कम्मुणो भणिया । उदद्याइकारणं जं तम्हा सव्वत्थ जइयन्वं || १ ||" अस्या अक्षरगमनिका - एपा जिनानामाज्ञा यथा शुभक्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रत्राजननतारोपणादि कर्त्तव्यं नान्यथा, अपिच - क्षेत्रादयोऽपि कर्म्मणा|मुदयादिकारणं भगवद्भिरुक्तास्ततोऽशुभद्र व्यक्षेत्रादिसामग्रीमवाप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्वोदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गादिदोषप्रसङ्गः, शुभक्षेत्रादिसामग्री तु प्राप्य जनानां शुभकर्म्मविपाकसम्भव इति संभवति निर्विघ्नं सामायिकपरियालनादि, तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं, ये तु भगवन्तोऽतिशयमन्तस्ते अतिशयवलादेव निर्विघ्नं सवनं वा स म्यगवगच्छन्ति ततो न शुभतिथिमुहूर्त्तादिकमपेक्षन्त इति तन्मार्गानुसरणं छद्मस्थानां न न्याय्यं तेन ये च परममुनिपर्युपासितप्रवचनविडम्बका अपरिमलित जिनशासनोपनिषद्भूतशास्त्रगुरुपरम्परायातनिरवद्य विशद कालोचितसामाचारीप्रतिपन्थिनः स्वमतिकल्पितसामाचारीका अभिद्धति-यथा न प्रत्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणे यतितव्यं, न खलु भगवान् जगत्स्वामी प्रत्राजनायोपस्थितेषु शुभतिध्यादिनिरीक्षणं कृतवानिति तेऽपास्ता द्रष्टव्या इति । तेषां -सूर्याचन्द्रमसां सर्वबाह्यान्मण्डलाभ्यन्तरं प्रविशतां तापक्षेत्रं प्रतिदिवस क्रमेण नियमादायामतो वर्द्धते येनैव च क्रमेण परिवर्द्धते तेनैव क्रमेण सर्वाभ्यन्तरान्मण्डलाद्वहिर्निष्क्रामतां परिहीयते, For Private & Personal Use Only ३ प्रतिपत्तौ समयक्षेत्राधि० उद्देशः २ सू० १७७ ॥ ३३८ ॥ ww.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy