SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte तानि यथायोगमन्यस्मिन्नन्यस्मिन्मण्डले तेषां संचरिष्णुत्वात् नक्षत्रतारकाणां तु मण्डलान्यनवस्थितान्येव तथा चाह-नक्षत्राणां तारकाणां च मण्डलान्यवस्थितानि ज्ञातव्यानि किमुक्तं भवति ? - आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च मण्डलमिति, न चैवं व्यवस्थितमण्डलत्वोक्तावेवमाशङ्कनीयं यथा तेषां गतिरेव न भवतीति यत आह- 'तेऽवि य' इत्यादि, तान्यपि नक्षत्राणि तारकाणि च सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् प्रदक्षिणावर्त्तमेव इदं क्रियाविशेषणं, मेरुमनुलक्ष्यीकृत्य चरन्ति एतच्च मेरुं लक्ष्यीकृत्य तेषां प्रदक्षिणावर्त्तचरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि ॥ ' रजनिकरदिनकराणां' चन्द्रादित्यानामूर्द्ध वाऽधो वा सङ्क्रमो न भवति तथा जगत्स्वाभाव्यान् तिर्यक् पुनर्मण्डलेषु सङ्क्रमणं भवति, किंविशिष्टमित्याह - 'साभ्यन्तरबाह्यम्' अभ्यन्तरं च बाह्यं च अभ्यन्तरबाह्यं सह अभ्यन्तरबाह्यं यस्य येन वा तत् साभ्यन्तरबाह्यं एतदुक्तं भवति ? - सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डलेषु सङ्क्रमणं यावत्सर्व बाह्यमण्डलं, सर्वबाह्याञ्च मण्डलादर्वाग् मण्डलेषु तावत्सङ्क्रमणं यावत्सर्वाभ्यन्तरमिति ॥ ' रजनिकरदिनकराणां' चन्द्रादित्यानां नक्षत्राणां महाग्रहाणां च 'चारविशेषेण' तेन तेन चारेण सुखदुःखविधयो मनुष्याणां संभवन्ति, तथाहि - द्विवि धानि सन्ति सदा मनुष्याणां कर्माणि तद्यथा-शुभवेद्यानि अशुभवेद्यानि च कर्मणां च सामान्यतो विपाकहेतवः पञ्च तद्यथाद्रव्यं क्षेत्र कालो भावो भवश्च, उक्तञ्च - "उदद्यक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भावं भवं च संपप्प || १ || ” शुभवेद्यानां च कर्मणां प्रायः शुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुः, अशुभवेद्यानामशुभद्रव्यक्षेत्रादि सामग्री, ततो | यदा येषां जन्मनक्षत्राद्यनुकूलश्चन्द्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तथाविधां विपाकसामग्रीमधिगम्य १ उदयः क्षयः क्षयोपशम उपशमो यच कर्मणो भणिताः । द्रव्यं क्षेत्रं कालं भावं भवं च संप्राप्य ॥ १ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy