SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ Jain Education Int | पञ्चविधा ज्योतिष्कास्तद्यथा चन्द्राः सूर्या ग्रहगणाः चशब्दान्नक्षत्राणि तारकाश्च भवन्ति 'चारोपगाः' चारयुक्ताः, 'तेने 'ति प्राकृतत्वात्पञ्चम्यर्थे तृतीया ततो मनुष्यक्षेत्रात्परं यानि शेषाणि 'चन्द्रादित्यग्रहतारानक्षत्राणि' चन्द्रादित्यग्रहतारा नक्षत्र विमानानि, सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात् तेषां नास्ति गतिः - न स्वस्मात्स्थानाचलनं नापि 'चारः' मण्डलगत्या परिभ्रमणं किन्त्ववस्थितान्येव तानि ज्ञातव्यानि ॥ सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं चन्द्रादिसङ्कलनामाह - ' एगे जंबुद्दीवे दुगुणा लवणे चउग्गुणा होंति । लावणगा यतिगुणिया ससिसूरा धायइसंडे' ॥ १ ॥ द्वौ चन्द्रौ उपलक्षणमेतत् द्वौ सूर्यौ च 'इह' अस्मिन् जम्बूद्वीपे चत्वारः 'सागरे' समुद्रे 'लवणतोये' लवणजले, घातकीपण्डे द्वीपे द्वादश चन्द्राश्च द्वादश सूर्याश्च ॥ एतदेव भङ्गयन्तरेण प्रतिपादयति- शशिनौ सूयाँ जम्बूद्वीपे द्वौ द्वौ तावेव द्विगुणितौ 'लवणे' लवणसमुद्रे भवतः, चत्वारो लवणसमुद्रे शशिनश्चत्वारश्च सूर्या भवन्तीत्यर्थः, द्वयोर्द्वाभ्यां गुणने चतुर्भावान्, पाठान्तरम् — “एवं जंबूदीवे दुगुणा लवणे चउग्गुणा होंति "त्ति, 'एवम् उक्तेन प्रकारेण एकैकौ चन्द्रसूर्यौ ज म्बूद्वीपे द्विगुणौ भवतः किमुक्तं भवति ? - द्वौ चन्द्रमसौ द्वौ सूर्यौ जम्बूद्वीप इति, 'लवणे' लवणसमुद्रे तावेवैकैको सूर्याचन्द्रमसौ चतुर्गुणौ भवतः, चत्वारश्चन्द्राश्चत्वारः सूर्या लवणसमुद्रे भवन्तीति भावः, 'लावणिकाः' लवणसमुद्रभवाः शशिसूर्यास्त्रिगुणिता घातकीपण्डे भवन्ति, द्वादश चन्द्रा द्वादश सूर्या घातकीपण्डे द्वीपे भवन्तीत्यर्थः ॥ सम्प्रति शेषद्वीपसमुद्रगतचन्द्रादित्यसङ्ख्या परिज्ञानाय करणमाह- धातकीपण्डः प्रभृतिः - आदिर्येषां ते धातकीपण्डप्रभृतयस्तेषु धातकीपण्डप्रभृतिषु द्वीपेषु समुद्रेषु च ये उद्दिष्टाचन्द्रा द्वादशादय: उपलक्षणमेतत् सूर्या वा ते ' त्रिगुणिताः ' त्रिगुणीकृताः सन्तः 'आइलचंद सहिय'त्ति उद्दिष्टचन्द्रयुक्ताद्वीपात्समुद्राद्वा प्राग् जम्बूद्वीपमादिं कृत्वा ये प्राक्तनाश्चन्द्रास्तैरादिमचन्द्रः उपलक्षणमेतत् आदिमसूर्यैश्च सहिता यावन्तो भवन्ति एतावत्प्रमाणा अनन्तरे For Private & Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy