________________
डादेव सा काचनाऽपि बुद्धिर्भूयः परावर्त्तते यथा संहरणमेव न भवति संहृय वा भूयः समानयति तेन संहरणतोऽपि मनुष्यक्षेत्राहि
मनुष्या मरणमधिकृत्य न भूता न भवन्ति न भविष्यन्ति च, येऽपि जङ्घाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावद्गच्छन्ति | तेऽपि तत्र गता न मरणमश्नुवते किन्तु मनुष्यक्षेत्रसमागता एव, तेन मानुषोत्तरपर्वतसीमाकं मनुष्याणां सम्बन्धि क्षेत्रं मनुष्यक्षेत्रमिति, तथा चाह-'से एएणद्वेण'मित्यादि गतार्थम् ॥ सम्प्रति मनुष्यक्षेत्रगतसमस्त चन्द्रादिसङ्ख्यापरिमाणमाह-'मणुस्सखेत्ते णं भंते ! कइ चंदा पभासिंसु' इत्यादि पाठसिद्धं, उक्तं चैवंरूपं परिमाणमन्यत्रापि-'बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं । |सयलं मणुस्सलोयं चरंति एए पगासिंता ॥१॥ एकारस य सहस्सा छप्पि य सोला महागहाणं. तु । छच्च सया छन्न उया नक्खत्ता | |तिन्नि य सहस्सा ॥२॥ अट्ठासीयं लक्खा चत्तालीसं च तह सहस्साई । सत्त सया य अणूणा तारागणकोडकोडीणं ॥ ३॥" तत्र
द्वात्रिंशं चन्द्रशतमेवं-द्वौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणोदे द्वादश धातकीपण्डे द्वाचत्वारिंशत्कालोदे द्वासप्ततिरभ्यन्तरपुष्कराड़े सर्व| सङ्ख्यया द्वात्रिंशं शतं, एवं सूर्याणामपि द्वात्रिंशं शतं परिभावनीयं, नक्षत्रादिपरिमाणमष्टाविंशत्यादिनक्षत्रादीनि द्वात्रिंशेन शतेन गुण| यित्वा परिभावनीयं ॥ सम्प्रति सकलमनुष्यलोकगततारागणस्योपसंहारमाह-एषः' अनन्तरोक्तसङ्ख्याकस्तारापिण्डः सर्वसङ्ख्यया | मनुष्यलोके आख्यात इति गम्यते, बहिः पुनर्मनुष्यलोकाद् यास्तारास्ताः 'जिनैः' सर्वस्तीर्थकृद्भिर्भणिता असङ्ख्याता द्वीपसमुद्रा-| णामसङ्ख्यातत्वात् , प्रतिद्वीपं प्रतिसमुद्रं च यथायोग सङ्ख्यातानामसङ्ख्यातानां च ताराणां सद्भावात् 'एतावत्' एतावत्सङ्ख्याकं
'ताराग्रं तारापरिमाणं यत् अनन्तरं भणितं मानुषे लोके तत् 'ज्योतिष' ज्योतिषदेवविमानरूपं 'कदम्बपुष्पसंस्थितं' कदम्बपुष्पहै। वद् अधःसङ्कुचितमुपरि विस्तीर्ण उत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमिति भावः 'चारं चरति' चारं प्रतिपद्यते, तथा जगत्स्वाभा
AMACHARGANACOCCAMERALGC-E
Jain Education Inter
For Private & Personel Use Only
ainelibrary.org