________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ३३६ ॥
Jain Education
व्यात्, ताराग्रहणं चोपलक्षणं, ततः सूर्यादयोऽपि यथोक्तसङ्ख्याका मनुष्यलोके तथाजगत्स्वाभाव्याच्चारं प्रतिपद्यन्त इति द्रष्टव्यं ॥ स प्रत्येतद्गत्तमेवोपसंहारमाह-रविशशिग्रहनक्षत्राणि उपलक्षणमेतत् तारकाणि च 'एतावन्ति' एतावत्सङ्ख्याकानि सपूर्वार्द्ध मनुष्यलोके, येषां किम् ? इत्याह-येषां सूर्यादीनां यथोक्तसङ्ख्याकानां सकलमनुष्यलोकभाविनां प्रत्येकं नामगोत्राणि, इहान्वर्थयुक्तं नाम सि द्धान्तपरिभाषया नाम गोत्रमित्युच्यते, ततोऽयमर्थः - नामगोत्राणि - अन्वर्थयुक्तानि नामानि यदिवा नामानि च गोत्राणि च नामगोत्राणि 'प्राकृताः' अनतिशायिनः पुरुषाः कदाचनापि न प्रज्ञापयिष्यन्ति, केवलं यदा त्वाह सर्वज्ञ एवं, तत इदं सूर्यादिसंयानं प्राकृतपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् श्रद्धेयं ॥ इह द्वौ चन्द्रौ द्वौ सूर्यावेकं पिटकमुच्यते, इत्थम्भूतानि च चन्द्रादित्यानां पिटकानि सर्वसङ्ख्यया मनुष्यलोके पट्पष्टिसङ्ख्यानि । अथ किंप्रमाणं पिटकमिति पिटकप्रमाणमाह - एकैकस्मिन् पिटके द्वौ चन्द्रौ द्वौ सूर्यो भवत इति, किमुक्तं भवति ? - द्वौ चन्द्रौ द्वौ सूर्यावित्येतावत्प्रमाणमेकैकचन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटकं जम्बूद्वीपे एक, द्वयोरेव चन्द्रमसोर्द्वयोरेव सूर्ययोस्तत्र भावतः द्वे पिटके लवणसमुद्रे चतुर्णी चन्द्रमसां चतुर्णी सूर्याणां च तत्र भावात् एवं पटू पिटकानि धातकीपण्डे एकविंशतिः कालो पत्रिंशदभ्यन्तरपुष्करार्द्धे इति भवन्ति सर्वमीलने चन्द्रादित्यानां पट्षष्टिः पिटकानि ॥ सर्वस्मिन्नपि मनुष्यलोके सर्वसङ्ख्या नक्षत्राणां पिटकानि भवन्ति पट्षष्टिः, नक्षत्रपिटकपरिमाणं च शशिद्वयसम्बन्धिनक्षत्रसङ्ख्याप रिमाणं, तथा चाह - एकैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पञ्चाशत् किमुक्तं भवति ? - पट्पञ्चाशन्नक्षत्रसङ्ख्याकमेकैकं नक्षत्रपिटकमिति, अत्रापि पट्पष्टिसङ्ख्या भावनैवम् एकं नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे पड् धातकीपण्डे एकविंशतिः कालो पट्त्रिंशदभ्यन्तरपुष्करार्द्ध इति ॥ महाग्रहाणामप्यङ्गारकप्रभृतीनां सर्वस्मिन् मनुष्यलोके सर्वसङ्ख्या पिटकानि भवन्ति षट्षष्टिः, ग्रहपिट -
For Private & Personal Use Only
३ प्रतिपत्तौ समयक्षे
त्राधि०
उद्देशः २
सू० १७७
॥ ३३६ ॥
www.jainelibrary.org