SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः ॥ ३१ ॥ Jain Education Inter यथा-वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घातश्च सञ्ज्ञाद्वारे नो सञ्ज्ञिनोऽसञ्ज्ञिनः, वेदद्वारे नपुंसकवेदाः, संमूच्छिमत्वात्, पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चापर्याप्तयः, दृष्टिद्वारे सम्यग्दृष्टयो मिध्यादृष्टयो वा न सम्यग्मिथ्यादृष्टयः, कथम् ? इति चेत् उच्यते, इह घण्टाया वादितायां महान् शब्द उपजायते, तत उत्तरकालं हीयमानोऽवसाने लालामात्रं भवति, एवममुना घण्टालालान्यायेन किञ्चित्सास्वादन सम्यक्त्वशेषाः केचिद् द्वीन्द्रियेषु मध्ये उत्पद्यन्ते ततोऽपर्याप्तावस्थायां कियत्कालं सास्वादनसम्यक्त्वसम्भवात् सम्यग्दृष्टित्वं, शेषकालं मिध्यादृष्टिता, यत्तु सम्यग्मिध्यादृष्टित्वं तन्न संभवति, तथाभवस्वभावतया तथारूपपरिणामायोगात् नापि सम्यग्मिथ्यादृष्टिः सन् तत्रोत्पद्यते 'न सम्ममिच्छो कुणइ कालं' इति वचनात् दर्शनद्वारं प्राग्वत् ज्ञानद्वारे ज्ञानिनोऽप्यज्ञानिनोऽपि तत्र ज्ञानित्वं सास्वादनसम्यक्त्वापेक्षया, ते च ज्ञानिनो नियमाद् द्विज्ञानिनो, मतिश्रुतज्ञानमात्रभा वातू, अज्ञानिनोऽपि नियमाद् द्वयज्ञानिनो, मत्यज्ञानश्रुताज्ञानमात्रभावात्, योगद्वारे न मनोयोगिनो वाग्योगिनोऽपि काययोगिनोऽपि, उपयोगद्वारं पूर्ववत्, आहारो नियमात् पदिशि त्रसनाड्या एवान्तद्वन्द्रियादीनां भावात् उपपातो देवनारका सङ्ख्यातवर्षायुष्कवर्जेभ्यः शेषतिर्यग्मनुष्येभ्यः स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वादश वर्षाणि, समवहतद्वारं प्रागिव, च्यवनद्वारे देवनारकासयात वर्षायुष्कवर्जितेषु शेषेषु तिर्यग्मनुष्येष्वनन्तरमुद्धृत्य गमनम्, अत एव गत्यागतिद्वारे यागतिका द्विगतिका: तिर्यग्मनुष्यगत्यपेक्षया, 'परीत्ता' प्रत्येकशरीरिणः, असङ्ख्येया घनीकृतस्य लोकस्य या ऊर्ध्वाध आयता एकप्रादेशिक्यः श्रेणयोऽसयेययोजनकोटाको टीप्रमाणाकाशसूचिगतप्रदेशराशिप्रमाणाः तावत्प्रमाणत्वात्, प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह - 'सेत्तं बेइंदिया' | उक्ता द्वीन्द्रियाः, अधुना श्रीन्द्रियानाह- For Private & Personal Use Only १ प्रतिपतौ द्वीन्द्रियाः सू० २८ ॥ ३१ ॥ inelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy