SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ . गच्छंति?, नेरइयदेवअसंखेजवासाउअवजेसु गच्छंति, दुगतिया दुआगतिया, परित्ता असंखेजा, सेत्तं बेइंदिया ॥ (सू० २८) 'से किंत' मित्यादि, अथ के ते द्वीन्द्रियाः ?, सूरिराह-द्वीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा-'पुलाकिमिया जाव समुद्द६ लिक्खा' इति यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः-"पुलाकिमिया कुच्छिकिमिया गंडूयलगा गोलोमा नेउरा सोमंगलगा वं सीमुहा सूईमुहा गोजलोया जलोया जालायुसा संखा संखणगा घुल्ला खुल्ला वराडा सोत्तिया मोत्तिया कल्लुयावासा एगतोवत्ता दुहतोवत्ता नंदियावत्ता संबुक्का माइवाहा सिप्पिसंपुडा चंदणा समुद्दलिक्खा इति” अस्य व्याख्या-'पुलाकिमिया' नाम पायुप्रदेशोत्पन्नाः कृमय: 'कुक्षिकमय:' कुक्षिप्रदेशोत्पन्नाः 'गण्डोयलकाः' प्रतीताः 'शङ्खाः' समुद्रोद्भवास्तेऽपि प्रतीताः 'शङ्खनकाः' त एव लघवः 'धुल्ला:' घुल्लिका: 'खुल्ला:' लघवः शङ्खाः सामुद्रशङ्खाकारा: 'वराटाः' कपर्दाः 'मातृवाहाः' कोद्रवाकारतया ये कोद्रवा इति प्रतीताः 'सिप्पिसंपुडा' संपुटरूपाः शुक्तयः 'चन्दनकाः' अक्षाः, शेषास्तु यथासम्प्रदायं वाच्याः, 'जे यावण्णे तहप्पगारा' इति | येऽपि चान्ये तथाप्रकारा:-एवंप्रकाराः मृतककलेवरसम्भूतकृम्यादयस्ते सर्वे द्वीन्द्रिया ज्ञातव्याः, 'ते समासतो' इत्यादि, ते द्वीन्द्रियाः 'समासत:' सझेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-अपर्याप्ताः पर्याप्ताश्च । शरीरद्वारेऽमीषां त्रीणि शरीराणि-औदारिकं तैजसं कार्मणं च, अवगाहना जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रा उत्कृष्टा द्वादश योजनानि, संहननद्वारे छेदवर्तिसंहननिनः, अत्र संहननं मुख्यमेव द्रष्टव्यम् , अस्थिनिचयभावात् , संस्थानद्वारे हुण्डसंस्थानाः, कषायद्वारे चत्वारः कषायाः, सज्ञाद्वारे चतस्र आहारादिकाः सञ्ज्ञाः, लेश्याद्वारे आद्यास्तिस्रो लेश्याः, इन्द्रियद्वारे द्वे इन्द्रिये, तद्यथा-स्पर्शनं रसनं च, समुद्घातद्वारे त्रयः समुद्घाताः, व जीच०६ Jain Education For Private Personel Use Only ziainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy