________________
श्रीजीवा
जीवाभि०
मलयगिरीयावृत्तिः
॥ ३२५ ॥
Jain Education
| द्वेधमीलनचिन्तायां । इह लवणसमुद्रस्य पूर्वाचार्यैर्घनप्रतर गणितभावनाऽपि कृता सा विनेयजनानुग्रहाय दर्श्यते, तत्र प्रतरभावना क्रियते, प्रतरानयनार्थं चेदं करणं - लवण समुद्रसत्कविस्तारपरिमाणाद् द्विलक्षयोजनरूपाद् दश योजनसहस्राणि शोध्यन्ते तेषु च शोधि - तेषु यच्छेषं तस्यार्द्ध क्रियते, जातानि पञ्चनवतिः सहस्राणि यानि च प्राक् शोधितानि दश सहस्राणि तानि च तत्र प्रक्षिप्यन्ते, जातं पञ्चोत्तरं लक्षं १०५०००, एतच्च कोटीति व्यवहियते, अनया च कोट्या लवणसमुद्रस्य मध्यभागवत परिरयो नव लक्षा अष्टचत्वारिंशत्सहस्राणि पट् शतानि त्र्यशीत्यधिकानि ९४८६८३ इत्येवंपरिमाणो गुण्यते, ततः प्रतरपरिमाणं भवति, तच्चेदं - नवनवतिः कोटिशतानि एकषष्टिः कोटयः सप्तदश लक्षाः पञ्चदश सहस्राणि ९९६११७१५०००, उक्तञ्च - " वित्थाराओ सोहिय दससहस्साई सेस अर्द्धमि । तं चैव पक्खिवित्ता लवणसमुहस्स सा कोडी ॥ १ ॥ लक्खं पंचसहस्सा कोडीए तीऍ संगुणेऊणं । लवणस्स मज्झपरिही ताहे पयरं इमं होइ || २ || नवनउई कोडिसया एगट्टी कोडि लक्ख सत्तरसा । पन्नरस सहस्साणि य पयरं लवणस्स निि ॥ ३ ॥ " धनगणितभावना त्वेवं- इह लवणसमुद्रस्य शिखा पोडश सहस्राणि योजनसहस्रमुद्वेधः सर्वसङ्ख्यया समदश सहस्राणि तै: प्राक्तनं प्रतरपरिमाणं गुण्यते, ततो घनगुणितं भवति, तदं- पोडश कोटीकोटयस्त्रिनवतिः कोटिशतसहस्राणि एकोनचत्वारिंशत् को| टिसहस्राणि नव कोटिशतानि पञ्चदशकोट्यधिकानि पञ्चाशदक्षाणि योजनानामिति १६९३३९९१५५००००००, उक्तञ्च – “जो यणसहससोलस लवणसिहा अहोगया सहस्सेगं । पयरं सत्तरसहस्ससंगुणं लवणघणगणियं ॥ १ ॥ सोलस कोडाकोडी ते उई कोडि - सयसहस्साओ । उणयालीस सहस्सा नवकोडिसया य पन्नरसा || २ || पन्नास सयसहस्सा जोयणाणं भवे अणूणाई । लवणसमुद्द स्सेयं जोयणसंखाऍ घणगणियं || ३ ||" आह- कथमेतावत्प्रमाणं लवणसमुद्रस्य घनगणितं भवति ?, न हि सर्वत्र तस्य सप्तदशयो
For Private & Personal Use Only
३ प्रतिपत्तौ
लवणस
मुद्राधि० उद्देशः २
सू० १७३
॥ ३२५ ॥
w.jainelibrary.org