SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा रीयावृत्तिः ॥ ३१८ ॥ न्द्रद्वीपो नाम द्वीप प्रज्ञप्तौ तौ च धातकीपण्डद्वीपान्तेन- धातकीपण्डद्वीपदिशि अर्कैकोननवतियोजनानि चत्वारिंशतं च पञ्चनवतिजीवाभि० 4 भागान् योजनस्योदकादूर्द्धमुच्छ्रितो लवणसमुद्रदिशि द्वौ कोशौ, शेषवक्तव्यताऽभ्यन्तरलावणिक चन्द्रद्वीपवद्वक्तव्या, अत्रापि च राजमलयगि- धान्यौ स्वकीययोद्वपियोः पूर्वस्यां तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् लवणसमुद्रे वक्तव्ये, एवं बाह्य लावणिक सूर्यसत्क सूर्यद्वीपावपि वक्तव्यौ, नवरमत्र लवणसमुद्रस्य पश्चिमाद् वेदिकान्तालवणसमुद्रं पूर्वस्यां दिशि द्वादश योजनसहस्राण्यवगाह्येति व 2 क्तव्यं, राजधान्यावपि स्वकयोपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे इति ॥ सम्प्रति धातकीपण्डगत चन्द्रादित्यद्वीपवक्तव्य४ तामभिधित्सुराह - 'कहि णं भंते!' इत्यादि, क भदन्त ! धातकीपण्डद्वीपगतानां चन्द्राणां तत्र द्वादश चन्द्रा इति बहुवचनं, चन्द्रद्वीपा नाम द्वीपा : प्रज्ञप्ता: ?, भगवानाह - गौतम ! धातकीपण्डस्य द्वीपस्य पूर्वस्यां दिशि कालोदं समुद्रं द्वादश योजनसहस्राण्यवगाह्या धातकीपण्डगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञप्ताः, ते च जम्बूद्वीपगत चन्द्रसत्कचन्द्रद्वीपवद्वक्तव्याः, नवरं ते सर्वासु दिक्षु जलादूर्द्ध द्वौ क्रोशौ उच्छ्रितौ इति वक्तव्यं तत्र पानीयस्य सर्वत्रापि समत्वाद्, राजधान्योऽपि तेषां स्वकीयानां द्वीपानां पूर्वतस्तिर्यगसङ्ख्येयान द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् धातकीपण्डे द्वीपे द्वादश योजनसहस्राण्यवगाह्य विजयाराजधानीवद्वक्तव्याः, एवं धातकीपण्डगतसूर्य सत्कसूर्यद्वीपा अपि वक्तव्याः, नवरं धातकीपण्डस्य पश्चिमान्ताद्वेदिकान्तात्कालोदसमुद्रं द्वादश योजनसहस्राण्यवगाह्य वक्तव्याः, राजधान्योऽपि स्वकीयानां सूरद्वीपानां पश्चिमदिशि अन्यस्मिन् धातकीपण्डे द्वीपे शेषं तथैव ॥ सम्प्रति कालोदसमुद्रगतचन्द्रादित्यसत्कद्वीपवक्तव्यतां प्रतिपिपादयिषुराह - 'कहि णं भंते!' इत्यादि, 'कालोयगाण' मित्यादि, व भदन्त ! 'कालोदगानां' कालोदसमुद्रसत्कानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ताः ?, भगवानाह - गौतम ! कालोदसमुद्रस्य पूर्वस्माद् वेदिकान्ता Jain Education For Private & Personal Use Only ३ प्रतिपत्तौ चन्द्रसूर्यद्वीपादिः उद्देशः २ सू० १६६ ॥ ३१८ ॥ w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy