________________
Jain Education Intern
स्वस्य चन्द्रद्वीपस्य स्वस्याश्चन्द्राभिधानाया राजधान्या अन्येषां च बहूनां ज्योतिषाणां देवानां देवीनां चाधिपत्यं यावद्विहरतः । ततस्तोत्पलादीनां चन्द्राकारत्वाच्चन्द्रवर्णत्वाञ्चन्द्रदेवस्वामिकत्वाच्च तो चन्द्रद्वीपों इति चन्द्राभिधे च राजधान्यौ तयोश्चन्द्रद्वीपयो: पूर्वस्यां दिशि तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राण्यवगाह्य विजयाराजधानीसदृश्यौ वक्तव्ये । एवं जम्बूद्वीपगतसूरसत्कसूर्य द्वीपावपि वक्तव्यौ, नवरं जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रमवगाह्य वक्तव्यं, राजधान्यावपि स्वकद्वीपयोः पश्चिमायां दिशि अन्यस्मिन् जम्बूद्वीपे वक्तव्ये, शेषं सर्व चन्द्रद्वीपवद्भावनीयं नवरं चन्द्रस्थाने सूर्यग्रहणमिति ॥ सम्प्रति लवणसमुद्रगतचन्द्रादित्यद्वीप वक्तव्यतामाह — 'कहि णं भंते!' इत्यादि, लवणे भवौ लावणिक अभ्यन्तरौ च तो लावणिकौ च अभ्यन्तरलावणिकौ शिखाया अर्वाक्चारिणावित्यर्थः तयोः सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात् शेषं सुगमं, भगवानाह - गौतम ! जम्बूद्वीपस्य पूर्वस्यां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य 'अत्र' एतस्मिन्नवकाशे अभ्यन्तरलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपो वक्तव्यौ, इत्यादि जम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपवन्निरवशेषं वक्तव्यं, नवरमत्र राजधान्यौ स्वकी - ययोपयोः पूर्वस्यां दिशि अन्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाहा वेदितव्ये । एवमभ्यन्तरलावणिक सूर्यसत्कसूर्यद्वीपावपि वक्तव्यौ, नवरं तौ जम्बूद्वीपस्य पश्चिमायां दिशि एनमेव लवणसमुद्रं द्वादश योजनसहस्राण्यवगाह्य वक्तव्यौ, राजधान्यावपि स्वकीययोः द्वीपयोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे द्वादशः योजनसहस्राण्यवगाह्येति । 'कहि णं भंते!' इत्यादि, के भदन्त ! बाह्यलावणिकयोश्चन्द्रयोश्चन्द्रद्वीपो नाम द्वीपो प्रज्ञप्तौ ?, बाह्यलावणिको नाम लवणसमुद्रे शिखाया बहिश्चारिणौ चन्द्रो, भगवानाह - गौतम ! लवणसमुद्रस्य पूर्वस्माद्वेदिकान्तादवग् लवणसमुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यात्र बाह्यलावणिकयोश्चन्द्रयोश्च
For Private & Personal Use Only
inelibrary.org