________________
%
-
जम्बूद्वीपे द्वीपे यो मन्दरपर्वतस्तस्य चतसृषु पूर्वादिषु दिक्षु लवणसमुद्रं पञ्चनवतिं पञ्चनवर्ति योजनसहस्राण्यवगाह्यात्रान्तरे चत्वारो 'महइमहालया' अतिशयेन महान्तो महालिजरं-महापिडहं तत्संस्थानसंस्थिताः, कचित् 'महारंजरसंठाणसंठिया' इति पाठस्तत्रारजर:-अलिजर इति, महापातालकलशा: प्रज्ञप्ताः, उक्तं च-"पणनउइसहस्साई ओगाहित्ता चउद्दिसिं लवणं । चउरोऽलिंजरसंठाणसंठिया होंति पायाला ॥ १॥" तानेव नामत: कथयति, तद्यथा-मेरोः पूर्वस्यां दिशि वडवामुख: दक्षिणस्यां केयूप: अपरस्यां यूपः उत्तरस्यामीश्वरः, ते चत्वारोऽपि महापातालकलशा एकैकं योजनशतसहस्र-लक्षं उद्वेधेन मूले दश योजनसहस्राणि विष्कम्भेन तत ऊर्दू एकप्रादेशिक्या श्रेण्या विष्कम्भत: प्रवर्द्धमाना २ मध्ये एकैकं योजनशतसहस्रं विष्कम्भेन तत उर्द्ध भूयोऽप्येकप्रादेशिक्या |श्रेण्या विष्कम्भतो हीयमाना हीयमाना उपरि मुखमूले दश योजनसहस्राणि विष्कम्भतः, उक्तञ्च-"जोयणसहस्सदसगं मूले उवरिं च होति विच्छिण्णा । मझे य सयसहस्सं तेत्तियमेत्तं च ओगाढा ॥१॥" 'तेसि ण'मित्यादि, तेषां महापातालकलशानां कुड्याः
सर्वत्र समा दश योजनशतबाहल्या योजनसहस्रबाहल्या इत्यर्थः, सर्वासना वज्रमया: 'अच्छा जाब पडिरूवा' इति प्राग्वत् ॥'तत्थ | होणमित्यादि, तेषु वनमयेषु कुड्येषु बहवो जीवा: पृथिवीकायिकाः पुद्गलाश्च 'अपकामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते ४
जीवा इति सामर्थ्याद्गम्यं, जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धत्वात् , 'चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमायान्ति, एतञ्च पवयं पुद्गलापेक्षं, पुद्गलानामेव चयापचयधर्मकतया व्यवहारात्, तत एवं सकलकालं तदाकारस्य सदाऽवस्थानात् शाश्वतास्ते कुड्या द्रव्यार्थतया प्रज्ञप्ताः, वर्णपर्यायैः रसपर्यायैः गन्धपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनां प्रतिक्षणं कियत्कालादूई वाडन्यथाऽन्यथा भवनात् ॥ 'तत्थ ण'मित्यादि, तत्र तेषु चतुर्पु पातालकलशेषु चत्वारो देवा महर्धिका यावत्करणान्महाद्युतिका इत्यादि
SCARKA4%ASOORARKAR
c %2595A9
-01. ॐ
lain Education
For Private
Personal Use Only
jainelibrary.org