________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
३ प्रतिपत्ती
लवणे वेलावृद्धिः | उद्देशः२ सू०१५६
॥३०६॥
परिग्रहः, पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-काले' इत्यादि, बडवामुखे काल: केयूपे महाकालः यूपे वेलम्बः ईश्वरे प्रभ- जनः ॥ 'तेसि ण'मित्यादि, तेषां महापातालकलशानां प्रत्येकं प्रत्येकं त्रयस्त्रिभागा: प्रज्ञप्ताः, तद्यथा-अधस्तनविभागो मध्यमस्त्रिभाग उपरितनस्त्रिभागः ॥'ते णमित्यादि, ते त्रयोऽपि त्रिभागास्त्रयस्त्रिंशद् योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशानि योजनत्रि|भागं च बाहल्येन प्रज्ञप्ताः । तत्र चतुर्ध्वपि पातालकलशेषु अधस्तनेषु त्रिभागेषु वातकाय: संतिष्ठति, मध्यमेषु त्रिभागेषु वायुकायो| ऽप्कायश्च, उपरितनेषु त्रिभागेष्वष्काय एव । 'अदुत्तरं च णमित्यादि, अथान्यद् गौतम ! लवणसमुद्रे 'तत्थ तत्थ देसे तहिं तहिं' | इति तेषां पातालकलशानामन्तरेषु तत्र २ देशे तस्य २ देशस्य तत्र २ प्रदेशे क्षुल्लारञ्जरसंस्थानसंस्थिताः क्षुल्ला: पातालकलशा: प्र. ज्ञप्ताः, ते क्षुल्ला: पातालकलशा एकमेकं योजनसहस्रमुद्वेधेन मूले एकैकं योजनशतं विष्कम्भेन मध्ये एकैकं योजनसहस्रं विष्कम्भेन | उपरि मुखमूले एकैकं योजनशतं विष्कम्भेन ॥ तेसि णमित्यादि, तेषां क्षुल्लकपातालकलशानां कुड्याः सर्वत्र समा दश दश योजनानि बाहल्यतः, उक्तञ्च-"जोयणसयविच्छिण्णा मूले उवरि दस सयाणि मज्झमि । ओगाढा य सहस्सं दसजोयणिया य से कुड्डा ॥ १ ॥” 'सव्ववइरामया' इत्यादि प्राग्वद् यावत् 'फासपज्जवेहिं असासया' इति, प्रत्येकं २ तेऽर्द्धपल्योपमस्थितिकाभिदेवताभिः परिगृहीताः ॥ 'तेसि णमित्यादि, तेषां क्षुल्लकपातालकलशानां प्रत्येकं २ त्रयस्त्रिभागा: प्रज्ञप्ताः, तद्यथा-अधस्त नत्रिभागो मध्यमस्त्रिभाग उपरितनस्त्रिभागः । ते णमित्यादि, ते त्रिभागा: प्रत्येकं त्रीणि योजनशतानि 'त्रयस्त्रिंशानि' त्रयस्त्रिंशदधिकानि | योजनविभागं च बाहल्येन प्रज्ञप्ताः, तत्र सर्वेषामपि क्षुल्लकपाताल कलशानामधस्तनेषु त्रिभागेषु वायुकाय: संतिष्ठति, मध्येषु त्रिभागेषु वायुकायोऽप्कायश्च, उपरितनेषु त्रिभागेष्वप्काय: संतिष्ठति, एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायसङ्ख्यया सप्त पातालकलशसहस्राणि
SRCTC-2C+
CACANA
॥३०६॥
Jain Education in
For Private & Personal Use Only
W
inelibrary.org