SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ GAACAROADCALCCALCANCEOCOM जिणुस्सेहपमाणमेत्ताणं सन्निक्खित्ताणं चिट्ठई' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'अट्ठसयं धूवकडुच्छुयाणं सन्निक्खित्ताणं चिट्ठई' इति पदं, 'सिद्धाययणस्स उप्पि अट्ठमंगलगा' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'सहस्सपत्तहत्थगा' इति, सर्वत्रापि च व्याख्याऽपि पूर्ववत् ।। 'जंबू णं सुदंसणा' इत्यादि, जम्बूः सुदर्शना द्वादशभिः पद्मवरवेदिकाभिः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन 8 संपरिक्षिप्ता । वेदिकावर्णनं प्राग्वत् । 'जंबू णमित्यादि, जम्बू: सुदर्शना अन्येन जम्वूनामष्टशतेन तदोच्चत्वप्रमाणमात्रेण 'सर्वतः। सर्वासु दिक्षु 'समन्ततः' सामस्येन संपरिक्षिप्ता । तदोच्चप्रमाणमेव भावयति-ताओ ण'मित्यादि, 'ता:' अष्टोत्तरशतसङ्ख्या जम्ब्वाः प्रत्येकं चत्वारि योजनान्यूर्द्धमुचैस्त्वेन क्रोशमुद्वेधेन योजनमेकं स्कन्धः क्रोशं बाहल्येन स्कन्धः, त्रीणि योजनानि बिडिमा-18 ऊर्द्ध विनिर्गता शाखा बहुमध्यदेशभागे चत्वारि योजनान्यायामविष्कम्भाभ्याम , ऊधिोरूपेण सातिरेकाणि चत्वारि योजनानि सर्वाग्रेण उद्वेधपरिमाणमीलनेनेति भावः । 'वइरामयमूलरययसुपइट्टिया विडिमा' इत्यादिवर्णनं पूर्ववत्तावद्वक्तव्यं यावदधिकं नयन-10 मनोनिर्वृत्तिकार्यः, प्रासादीया यावत्प्रतिरूपाः ॥ 'जंबूए ण'मित्यादि, 'जंवृए णं सुदंसणाए' इत्यादि, जम्वाः सुदर्शनाया अवरोपत्तरस्यामुत्तरस्यामुत्तरपूर्वस्यां, अत एवासु तिसृषु दिक्ष्वनादृतस्य देवस्य जम्बूद्वीपाधिपतेश्चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि। जम्बूसहस्राणि प्रज्ञप्तानि, पूर्वस्यां चतसृणामग्रमहिषीणां योग्यानि चतस्रो, महाजम्बा दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसह-11 हस्राणां योग्यान्यष्टौ जम्बूसहस्राणि, दक्षिणस्यां मध्यमपर्पदो दशानां देवसहस्राणां योग्यानि दश जम्बूसहस्राणि, दक्षिणापरस्यां बाह्य पर्षदो द्वादश देवसहस्राणां योग्यानि द्वादश जम्बूसहस्राणि, अपरस्यां समानामनीकाधिपतीनां योग्यानि सप्त महाजम्बः, तत: सतर्वासु दिक्षु षोडशानामारनदेवसहस्राणां योग्यानि षोडश जम्बूसहस्राणि प्रज्ञतानि ॥ 'जंवू णं सुदंसणा' इत्यादि, सा जम्बूः सुद Jain Education For Private 8 Personal Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy