________________
Jain Education Inter
एकैकत्रि सोपानप्रतिरूपकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि - प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि तद्यथा- एक पूर्वस्यामेकं | दक्षिणस्यामेकं पश्चिमायामेकमुत्तरस्याम् ॥ 'तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-वमया नेमा भूमेरुर्द्धमुद्गच्छन्तः प्रदेशा इत्यादि जगत्युपरिवाप्यादित्रि सोपानवत्तावद्वक्तव्यं यावन्नानामणिमयान्यवलम्बनानि अवलबनवाहाच, तोरणान्यपि प्राग्वद्वाच्यानि ।। ' तस्स णं जंबूपेढस्स ण' मित्यादि, जम्बूपीठस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स च ' से जहानामए आलिंगपुक्खरेइ वा' इत्यादि विजयाराजधान्युपकारिकालयनवत्तावद्वक्तव्यो यावन्मणीनां स्पर्शवक्तव्यतापरिसमाप्तिः, यावच्च बहवो वानमन्तरा देवा देव्यश्वासते शेरते यावद् विहरन्तीति ।। ' तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमि - भागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वामना मणिमयी 'अच्छा जाव पडिरुवा' इति प्राग्वत् ॥ 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि बहुमध्यदेशभागे, अत्र महती जम्बूः सुदर्शना प्रज्ञप्ता, अष्टौ योजनान्यूर्द्धमुचैस्त्वेन, अर्द्धयोजनमुद्वेधेन, द्वे योजने स्कन्धः षड् योजनानि विडिमा - ऊर्द्ध विनिर्गता शाखा बहुमध्यदेशभागे अष्टौ योजनान्यायामविष्कम्भाभ्यां सातिरेकान्यष्टौ योजनानि 'सर्वाप्रेण' उद्वेधोच्चैस्त्व परिमाणमीलनेन, तस्याश्च जम्ब्वा वज्रमयानि मूलानि यस्याः सा वज्रमयमूला 'रययसुपइडियविडिमा' इति रजता - रजतमयी सुप्रतिष्ठिता विडिमा - बहुमध्यदेशभागे ऊर्द्ध विनिर्गता यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन विशेषणसमासः, 'रिट्ठामयविउलकंदा वेरुलियरुइलखंधा' रिष्टमयो - रिष्ठरत्नमय: ( विपुलः ) कन्दो यस्याः सा रिष्ठरत्नमयकन्दा, तथा वैडूर्यरत्त्रमयो रुचिरो - दीप्यमानः स्कन्धो यस्याः सा वैडूर्यरुचिरस्कन्धा, ततः पूर्वपदेन कर्मधारय समासः, 'सुजायवरजायख्वपढमगविसालसाला' सुजातं - मूल
For Private & Personal Use Only
Jainelibrary.org