SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ २९४ ॥ Jain Education In द्रव्यशुद्धं वरं प्रधानं यत् जातरूपं तदात्मकाः प्रथमका - मूलभूता विशाला: शाला:- शाखा यस्याः सा सुजातवरजातरूपप्रथमकविशालशाला: 'नाणामणिरयण विविहसाहप्पसाहवे रुलियपत्ततवणिज्जपत्तविंदा' नानामणिरत्नानां - नानामणिरत्नामिका विविधा शाखा प्रशाखा यस्याः सा तथा तथा बैडूर्याणि वैडूर्यरत्नमयानि पत्राणि यस्याः सा तथा तपनीयानि - तपनीयमयानि पत्रवृन्तानि यस्याः सा तथा ततः पदद्वय २ मीलनेन कर्म्मधारयः नानामणिरत्नविविधशाखा प्रशाखावैडूर्यपत्र तपनीयपत्रवृन्ता:, अपरे सौवर्णिक्यो मूल - ७ शाखा: प्रशाखा रजतमय्य इत्युचुः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लवैकुरधरा' जाम्बूनदनाम कसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदवो - मनोज्ञाः सुकुमाराः - सुकुमारस्पर्शा ये प्रवाला - ईपदुन्मीलितपत्रभावाः पल्लवाः संजात परिपूर्णप्रथमपत्र भावरूपा वराङ्कुरा:प्रथममुद्भिद्यमाना अङ्कुरास्तान् धरन्तीति जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लवाङ्कुरधराः, कचित्पाठ: - 'जंबूनय रत्तमउयसुकुमालकोमलपल्लवंकुरग्गसिहरा' तत्र जाम्बूनदानि रक्तानि मृदूनि - अकठिनानि सुकुमाराणि - अकर्कशस्पर्शानि कोमलानि - मनोज्ञानि प्रवालप लवाङ्कुरा यथोदितस्वरूपा अग्रशिखराणि च यस्याः सा तथा अन्ये तु जम्बूनदमया अग्रवाला अङ्करापरपर्याया राजता इत्याहु:, 'विचित्तमणिरयण सुरभिकुसुमफलभारनमियसाला' विचित्रमणिरत्नानि विचित्रमणिरत्नमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता - नामं प्राहिताः शाला:- शाखा यस्याः सा तथा उक्तञ्च - "मूला वइरमया से कंदो खंधो य रिट्ठवेरुलिओ । सोवण्णियसाहप्पसाह तह जायख्वा य || १ || विडिमा रययवेरुलियपत्ततवणिज्जपत्तविंटा य । पल्लव अग्गपवाला जंबूणयरायया तीसे ॥ २ ॥ " " रयणमयापुष्पफला' इति 'सच्छाया' इति सती-शोभना छाया यस्याः सा सच्छाया, तथा सती - शोभना प्रभा ३ प्रतिपत्तौ जम्बूपीठाधिकारः उद्देशः २ * सू० १५१ For Private & Personal Use Only ॥ २९४ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy