________________
द्धोच्चत्वप्रमाणमेव तेषां भावयति-ते णं पउमा' इत्यादि, तानि पद्मानि प्रत्येकम योजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहल्येन दश योजनशतानि उद्वेधेन क्रोशमेकं जलपर्यन्तादुच्छ्रितं सातिरेकाणि दश योजनशतानि सर्वाग्रेण ॥ 'तेसि ण'मित्यादि, तेषां पद्मानामयमेतद्रूपो वर्णावास: प्रज्ञप्तः, वनमयानि मूलानि रिष्ठरत्नमयाः कन्दा: वैडूर्यरत्नमया नाला: तपनीयमयानि बाह्यपत्राणि जाम्बूनमयानि अभ्यन्तरपत्राणि तपनीयमयानि केशराणि कनकमय्य: कर्णिकाः नानामणिमयाः पुष्करस्थिभुगाः ॥ 'ताओणं कण्णियाओ' इत्यादि, ता: कर्णिका: क्रोशमायामविष्कम्भाभ्यामर्द्धकोशं बाहल्येन सर्वामना कनकमय्यः 'अच्छाओ जाव पडिरूवाओं' इति प्राग्वत् ॥ 'तासि णं कणियाण'मित्यादि, तासां कर्णिकानामुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य वर्णकः पूर्ववत्तावद्वक्तव्यो यावन्मणीनां स्पर्शः ॥ 'तस्स णमित्यादि, तस्य मूलभूतपद्मस्य 'अपरोत्तरेण' अपरोत्तरस्यां, एवमुत्तरस्यामुत्तरपूर्वस्यां, सर्वसङ्कलनया तिसृषु दिक्षु अत्र नीलवतो नागकुमारेन्द्रस्य नागकुमारराजस्य चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि पद्मसहस्राणि प्रज्ञप्तानि । 'एतेण'मित्यादि, एतेनानन्तरोदितेनाभिलापेन यथा विजयस्य सिंहासनपरिवारोऽभिहितस्तथेहापि पद्मपरिवारो वक्तव्यः, तद्यथा-पूर्वस्यां दिशि चतसृणामग्रमहिषीणां योग्यानि चत्वारि महापद्मानि, दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देव| सहस्राणां योग्यान्यष्टौ पद्मसहस्राणि, दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश पद्मसहस्राणि, दक्षिणापरस्यां बाह्य
| पर्षदो द्वादशानां देवसहस्राणां द्वादश पद्मसहस्राणि, पश्चिमायां सप्तानामनीकाधिपतीनां योग्यानि सप्त महापानि प्रज्ञप्तानि, तद18|नन्तरं तस्य द्वितीयस्य पद्मपरिवेषस्य पृष्ठतश्चतसृषु दिक्षु षोडशानामामरक्षकदेवसहस्राणां योग्यानि पोडश पद्मसहस्राणि प्रज्ञप्तानि,
तद्यथा-चत्वारि पद्मसहस्राणि पूर्वस्यां दिशि चत्वारि पद्मसहस्राणि दक्षिणस्यां चत्वारि पद्मसहस्राणि पश्चिमायां चत्वारि पद्मसह
Jain Education in
For Private & Personal Use Only
jainelibrary.org