SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगियावृत्तिः ॥ २८९ ॥ Jain Education Int न्धेन विजयराजधान्या उपकारिकालयनस्येव तावद्वक्तव्यं यावन्मणीनां स्पर्शवक्तव्यतापरिसमाप्तिः ॥ ' तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञप्तं क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमूर्द्धमुच्चैस्त्वेन, अनेकस्तम्भशतसन्निविष्टमित्यादि तद्वर्णनं विजयराजधानीगतसुधर्म्मसभाया इव तावद्वक्तव्यं यावदिदं सूत्रं 'दिव्वतुडियस द्दसंपणदिते' इति, तदनन्तरं सूत्रमाह - 'सव्वरयणामए' इत्यादि सर्वासना रत्नमयम् अच्छं यावत्प्रतिरूपं यावत्करणात् 'सण्हे लहे घट्टे मट्ठे' इत्यादिपरिग्रहः । तस्स णमित्यादि तस्य भवनस्य 'त्रिदिशि' तिसृपु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा - पूर्वस्यामुत्तरस्यां दक्षिणस्याम् || 'ते णं दारा' इत्यादि, तानि द्वाराणि पञ्चधनुः शतानि ऊर्द्धमुश्चैस्त्वेन, अर्द्धतृतीयानि धनुः शतानि विष्कम्भेन, तावदेव - अर्द्धतृतीयान्येव धनुःशतानीति भावः प्रवेशेन । 'सेयावर कणगधूभिया' इत्यादि द्वारवर्णनं विजयद्वारस्येव तोवदविशेषेणाव सातव्यं यावत् 'वणमालाओ' इति वनमालावक्तव्यतापरिसमाप्तिः ॥ 'तस्स ण' मित्यादि, तस्य भवनस्य उल्लोचोऽन्तर्बहुसमरमणीयो भूमिभागो मणीनां वर्णगन्धरसस्पर्शवर्णनं प्राग्वत् ॥ ' तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहु| मध्यदेशभागे मणिपीठिका प्रज्ञप्ता, पञ्चधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धतृतीयानि धनुःशतानि बाहुल्येन सर्वात्मना मणिमयी अच्छा यावत्प्रतिरूपा इति प्राग्वत् ॥ 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपर्यत्र महदेकं देवशयनीयं प्रज्ञप्तं, शयनीयवर्णकः प्राग्वत् । ' तस्स ण' मित्यादि, तस्य भवनस्य उपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि पूर्ववत्तावद्वक्तव्यं यावद्वहवः सहस्रपत्रहस्तका इति ॥ ' से ण' मित्यादि, तत्पद्ममन्येनाष्टशतेन पद्मानां तदद्धच्चत्वप्रमाणमात्राणां तस्य मूलपद्मप्रमाणस्यार्द्धं तदुर्द्ध तच तद् उच्चत्वप्रमाणं च तदर्द्धाच्चत्वप्रमाणं तत् मात्रा येषां ते तानि तथा तेषां 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तं । तद For Private & Personal Use Only ३ प्रतिपत्तौ नीलवद्रदाधि० उद्देशः २ सू० १४९ ॥ २८९ ॥ Jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy