SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ पर्यन्तपदं 'पडिहत्यभमंतमच्छकच्छपअणेगसउणमिहुणपरियरिए' इति । 'उभओपासे' इत्यादि, स च नीलवन्नामा इदः शीताया महानद्या उभयोः पार्श्वयोर्बहिर्विनिर्गतः, स तथाभूतः सन्नुभयोः पाश्वयोःभ्यां पद्मवरवेदिकाभ्याम् , एकस्मिन पायें एकया पद्मवरवेदिकया द्वितीये पार्श्वे द्वितीयया पद्मवरवेदिकयेत्यर्थः, एवं द्वाभ्यां वनपण्डाभ्यां 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, पद्मवरवेदिकावनपण्डवर्णकश्च प्राग्वत् ॥ 'नीलवंतदहस्स णं दहस्स तत्थ तत्थेत्यादि, नीलबहुदस्य णमिति वाक्यालकारे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि निसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रज्ञप्तानि, वर्णकस्तेषां प्राग्वद्वक्तव्यः ॥ 'तेसि णमित्यादि, तेपां च त्रिसोपानप्रतिरूपकाणां पुरत: प्रत्येकं प्रत्येक तोरणं प्रज्ञप्तं, 'ते गं तोरणा' इत्यादि तोरणवर्णनं पूर्ववत्तावद्वक्तव्यं यावत् 'बहवो सयसहस्सपत्तहत्थगा' इति पदम् ।। 'तस्स ण'मित्यादि, तस्य नीलवन्नाम्नो हृदस्य बहुमध्यदेशभागे, अत्र महदेकं पद्मं प्रज्ञप्तं योजनमायामतो विष्कम्भतश्वार्द्धयोजनं बाहल्येन दश योजनानि 'उधन' जण्डलेन जलपर्यन्ताद् द्वौ क्रोशौ उच्छ्रितं सर्वाग्रेण सातिरेकाणि दश योजनशतानि प्रज्ञतानि ॥ 'तस्स णमित्यादि, तस्य पदास्य अर्य, वक्ष्यमाण: 'एतद्रपः' अनन्तरमेव वक्ष्यमाणस्वरूपः 'वोवासः' वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-वन्नमयं मूलं रिष्ठरत्नमयः कन्दो वैडयरत्नमयो नालः, वैडूर्यरत्नमयानि बाह्यपत्राणि, जाम्बूनदमयान्यभ्यन्तरपत्राणि, तपनीयमयानि केसराणि, कनकमयी पुष्करकणिका. नानामणिमयी पुष्करस्थिबुका ॥ 'साणं कणिया अद्ध'मित्यादि, मा कर्णिकाऽद्धंयोजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहल्यतः सर्वासना कनकमयी अच्छा यावत्प्रतिरूपा, यावत्करणात् 'सण्हा लण्हा घट्टा मट्ठा नीरया' इत्यादि परिग्रहः॥'तीसे णं कणिया इत्यादि, तस्याः कर्णिकाया उपरि बहुसमरमणीयो भूमिभाग: प्रज्ञप्तः, तद्वर्णनं च से जहानामए आलिंगपुक्खरेइ वेत्यादिना प्र जी०४९ Jain Education in For Private Personal use only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy