SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ आकरा वस्त्रभेदास्ते, यथाचिन्तितमूर्तयः ॥ २॥” इत्यादि, भगवानाह-नायमर्थः समथों, व्यपगतडिम्बडमरकलहबोलक्षारवैरास्ते ।। मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'अत्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु दुर्भूतानीति वा, दुर्भतंअशिवं, कुलरोगा इति वा मण्डलरोगा इति वा शिरोवेदनेति वा अक्षिवेदनेति वा कर्णवेदनेति वा नखवेदनेति वा दन्तवेदनेति वा काश इति वा श्वास इति वा शोष इति वा ज्वर इति वा दाह इति वा कच्छूरिति वा खसर इति वा कुष्ठमिति वा अर्श इति वा अजीर्णमिति वा भगन्दर इति वा इन्द्रग्रह इति वा स्कन्धग्रह इति वा कुमारग्रह इति वा नागग्रह इति वा यक्षग्रह इति वा भूतग्रह इति वा धनुर्ग्रह इति वा उद्वेग इति वा एकाहिका इति वा व्याहिका इति वा व्याहिका इति वा चतुर्थका इति वा हृदयशुलानीति वा मस्तकशूलानीति वा पार्श्वशूलानीति वा कुशिशूलानीति वा योनिशूलानीति वा ग्राममारिरिति वा नकरमारिरिति वा निगममारिरिति वा यावत्सन्निवेशमारिरिति वा, यावत्करणात् खेडकर्बटादिपरिग्रहः, मारिकृतप्राणिक्षय इति वा जनक्षय इति वा धनक्षय इति वा कुलक्षय इति वा व्यसनभूतमनार्यतेति वा ?, भगवानाह-नायमर्थः समर्थों, व्यपगतरोगातङ्कास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि ण' मित्यादि, तेषामुत्तरकुरुवास्तव्यानां भदन्त ! मनुष्याणां कियन्तं कालं स्थिति:-अवस्थानं प्रज्ञप्ता ?, भगवानाह-गौतम! जघन्येन देशोनानि त्रीणि पल्योपमानि, तत्र न ज्ञायते कियता देशेनोनानि ? तत आह-पल्योपमस्यासङ्ख्येयभागेनोनानि, उत्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि | 'ते णं भंते' इत्यादि, ते उत्तरकुरुवास्तव्या भदन्त! मनुजा: कालमासे 'कालं' मरणं कृत्वा क गच्छन्ति ?, एतदेव ब्याचष्टे-कोत्पद्यन्ते ? इति, भगवानाह-गौतम ! ते मनुजाः षण्मासावशेषायुपः कृतपरभवायुहैबन्धाः स्वकाले युगलं प्रसूवते, प्रसूय एकोनपञ्चाशतं रात्रिन्दिवानि तद् युगलमनुपालयन्ति, अनुपाल्य काशित्वा भुत्वा जृम्भयित्वा For Private Personal Use Only N Jain Education inte ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy