SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः भसि ज्वलद्भीमशब्दरूपाणि, अमोघा इति वा, अमोघा:-सूर्यबिम्बस्याधः कदाचिदुपलभ्यमानशकटोद्धिसंस्थिता श्यामादिरेखा, एते ||४३ प्रतिपत्तौ |चन्द्रपरिवेषादयः स्वरूपतोऽपि प्रतिषेध्याः, प्राचीनवाता इति वा अपाचीनवाता इति वा यावत् शुद्धवाता इति वा, यावत्करणाह- | देवकुर्वक्षिणवातादिपरिग्रहः, एतेऽसुखहेतवो विकृतरूपाः प्रतिषेध्याः नतु सामान्येन, पूर्वादिवातस्य तत्रापि सम्भवात् , प्रामदाहा इति वा | धिकारः नकरदाहा इति यावत्संनिवेशदाहा इति, यावत्करणान्निगमदाहखेटदाहादिपरिग्रहः, दाहकृतश्च प्राणक्षय इति वा भूतक्षय इति वा उद्देशः२ कुलक्षय इति वा, एते खरूपतोऽपि प्रतिषेध्याः, तथा चाह भगवान्-गौतम ! नायमर्थः समर्थः, केपाश्चिदनर्थहेतुतया केषाञ्चित्स्व- सू०१४७ रूपतश्च तत्र तेषामसम्भवात् ॥ 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुपु कुरुपु डिम्बानीति वा, डिम्बानि-स्वदेशोत्था विप्लवाः, डमराणीति वा, डमराणि-परराजकृता उपद्रवाः, कलहा इति वा, कलहा-वागयुद्धानि, बोला इति वा, बोल:--आर्त्तानां बहूनां कलकलपूर्वको मेलापकः, क्षार इति वा, क्षार:-परस्परं मात्सर्य, वैराणीति वा, वैरं-परस्परमसहनतया हिंस्यहिंसकभावाध्यवसायः, महायुद्धानीति वा, महायुद्धं-परस्परं मार्यमाणमारकतया युद्ध, महासङ्घमा इति वा, महासन्नाहा इति वा, महासङ्ग्रामश्चेटिककोणिकवत् , महासन्नाहो-बृहत्पुरुषाणामपि बहूनां य: सन्नाहः, महापुरुषनिपतनानीति वा, प्रतीतं, महाशस्त्रनिपतनानीति वा, महाशस्त्रनिपतनं-यन्नागवाणादीनां दिव्यास्त्राणां प्रक्षेपणं, नागबाणादयो हि बाणा महाशस्त्राणि, तेषामद्भुतविचित्रशक्तिकत्वात् , | तथाहि नागबाणा धनुष्यारोपिता वाणाकारा मुक्ताश्च सन्तो जाज्वल्यमानासह्योल्कादण्डरूपास्ततः परशरीरे सक्रान्ता नागमूर्तीभूय पाशत्वमुपगच्छन्ति, तामसवाणाश्च पर्यन्ते सकलसङ्ग्रामभूमिव्यापिमहान्धतमसरूपतया परिणमन्ते, उक्तञ्च-"चित्रं श्रेणिक! ते ॥२८३॥ बाणा, भवन्ति धनुराश्रिताः । उल्कारूपाश्च गच्छन्तः, शरीरे नागमूर्तयः ।। १ ।। क्षणं वाणाः क्षणं दण्डाः, क्षणं पाशत्वमागताः । Jain Education in For Private & Personal use only @ ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy