________________
अभ्राणीति वा, अभ्राणि-सामान्याकारेण प्रतीतानि, अभ्रवृक्षा इति वा, अभ्रवृक्षा-वृक्षाकारपरिणतान्यभ्राणि, सन्ध्या इति वा सन्ध्या- काले नीलाद्यभ्रपरिणतिरूपा प्रतीतैव, गन्धर्वनगराणि-सुरसदनप्रासादोपशोभितनगराकारतया तथाविधनभ:परिणतपुद्गलराशिरूपाणि, IN
एतान्यपि तत्र स्वरूपतोऽपि न भवन्ति, गर्जितानीति वा विद्युत इति वा, गर्जितानि विद्युतश्च प्रतीताः, उल्कापाता इति वा, उल्कापाता-योनि संमूछितज्वलननिपतनरूपाः, दिग्दाह इति वा, दिग्दाहा-अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपाः, निर्घाता इति वा, निर्घातो-विद्युत्प्रपातः, पांशुवृष्टय इति वा, पांशुवृष्टयो-धूलिवर्षाणि, यूपका इति वा, यूपका: 'संझाछेयावरणो य' इत्यादिनाऽऽवश्यकान्थेन प्रतिपत्तव्याः, यक्षदीप्तकानीति वा, यक्षदीप्तकानि नाम नभसि दृश्यमानाग्निसहितः पिशाच:,
धूमिकेति वा रूक्षा प्रविरला धूमाभा धूमिका, महिकेति वा, स्निग्धा घना घनत्वादेव भूमौ पतिता सार्द्रतणादिदर्शनद्वारेणोपलक्ष्यAमाणा महिका, रजउद्घाता-रजस्वला दिशः, चन्द्रोपरागा इति वा सूर्योपरागा इति वा, चन्द्रोपराग:-चन्द्रग्रहणं सूर्योपरागः-सूर्य
ग्रहणं, इह गर्जितविद्युदुल्कादिग्दाहनिर्धातपांशुवृष्टियूपकयक्षदीपकधूमिकामहिकारजउद्घाता: स्वरूपतोऽपि प्रतिषेध्याः, चन्द्रसूर्यग्रहणे | त्वनर्थोपनिपातहेतुतया, खरूपतस्तयोः प्रतिषेद्धमशक्यत्वात् , जम्बूद्वीपगतौ हि चन्द्रौ सूर्यो वा तत्प्रकाशयतः, एकस्य चन्द्रस्य ग्रहणे | सकलमनुष्यलोकवर्तिनां चन्द्राणामेकस्य सूर्यस्य ग्रहणे सकलमनुष्यलोकवर्तिनां सूर्याणां ग्रहणमत इह क्षेत्र इव तत्रापि स्वरूपतश्चन्द्रसूर्योपरागप्रतिषेधासम्भवः, चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा, चन्द्रसूर्यपरिवेषाश्चन्द्रादित्ययोः परितो वलयाकारपरिणतिरूपाः प्रतीता एव, प्रतिचन्द्रा इति वा प्रतिसूर्या इति वा, प्रतिचन्द्र-उत्पातादिसूचको द्वितीयश्चन्द्रः, एवं द्वितीयः सूर्यः प्रतिसूर्यः, इन्द्रधनुरिति वा उदकमत्स्य इति वा, इन्द्रधनु:-प्रतीतं, तस्यैव खण्डमुदकमत्स्यः, कपिहसितानीति वा, कपिहसितानि-अकस्मान्न
जी०४८
Jain Education
For Private
Personel Use Only
Twininelibrary.org