________________
श्रीजीवाजीवाभि० मलयगि यावृत्तिः
॥ २८२ ॥
Jain Education
रकः, तृणकचवर इति वा पत्रकचवर इति वा अशुचीति वा, अशुचि - विगन्धं शरीरमलादि, पूतीति वा, पूति- कुथितं स्वस्वभावच - लितं त्रिवासरवटकादिवत्, दुरभिगन्धमिति वा, दुरभिगन्धं मृतकलेवरादिवत् अचोक्षं- अपवित्रमस्थ्यादिवत् ?, भगवानाह - नायमर्थः समर्थो, व्यपगतस्थाणुकण्टकही रशर्करातृणक चवरपत्रकच वराशुचिपूतिदुरभिगन्धाचोक्षपरिवर्जिता उत्तरकुरवः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! || 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त उत्तरकुरुपु कुरुपु, गर्त्तेति वा, गर्त्ता - महती खड्डा, दरीति वा, दरी-भूपि - कादिकृता लध्वी खड्डा, घसीति वा, घसी-भूराजि:, भृगुरिति वा भृगुः - प्रपातस्थानं, विषममिति वा, विषमं - दुरारोहावरोहस्थानं, धूलिरिति वा पङ्क इति वा, धूलीपङ्को प्रतीतौ, चलणीति वा, चलनी - चरणमात्रस्पर्शी कर्दम: ?, भगवानाह - नायमर्थः समर्थः, उत्त रकुरुपु कुरुषु बहुसमरमणीयो भूभागः प्रज्ञप्तो हे श्रमण ! हे आयुष्मन् ! || 'अस्थि णं भंते!' इत्यादि, सन्ति भदन्त ! दूंसा इति बा मसका इति वा ढङ्कणा इति वा, कचित् पिशुगा इति वा इति पाठस्तत्र पिशुका:- चंचटादयः, यूका इति वा लिक्षा इति वा ?, भगवानाह - नायमर्थः समर्थो, व्यपगतोपद्रवाः खलु उत्तरकुरवः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! || 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु अह्य इति वा अजगरा इति वा महोरगा इति वा?, हन्त ! सन्ति न पुनस्तेऽन्योऽन्यस्य तेषां वा मनुजानां काश्विदाबाधां व्यावाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते व्यालकगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! || 'अस्थि णं भंते' इत्यादि, सन्ति (मदन्त) ! उत्तरकुरुषु कुरुषु ग्रहदुण्डा इति वा, दण्डाकारव्यवस्थिता ग्रहा ग्रहदण्डाः ते चानर्थोपनिपातहेतुतया प्रतिषेध्या न स्वरूपतः, एवं ग्रहमुशलानीति वा, ग्रहगर्जितानि - ग्रहचारहेतुकानि गर्जितानि, इमानि स्वरूपतोऽपि प्रतिषेध्यानि, ग्रहयुद्धानीति वा, ग्रहयुद्धं नाम यदेको प्रहोऽन्यस्य ग्रहस्य मध्येन याति, ग्रहसङ्घाटका इति वा, ग्रहसङ्घाटको नाम प्रहयुग्मं, ग्रहापसव्यानीति वा
For Private & Personal Use Only
१३ प्रतिपत्तौ
देवकुर्वधिकारः
उद्देशः २
सू० १४७
।। २८२ ॥
www.jainelibrary.org