________________
इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुपु हिरण्यमिति वा-हिरण्यं-अघटितं सुवर्ण कांस्य-कांस्यभाजनजाति: 'दसमिति वा दूष्यं । वस्त्रजाति:, मणिमौक्तिकशङ्खशिलाप्रवालसत्सारस्वापतेयानि वा, तत्र मणिमौक्तिकशङ्खशिलाप्रवालानि प्रतीतानि सद्-विद्यमानं सारं -प्रधानं स्वापतेयं-धनं सत्सारस्वापतेयं, भगवानाह-हन्ता! अस्ति, 'नो चेव ण'मित्यादि, न पुनस्तेषां मनुजानां तद्विषयस्तीत्रो | ममत्वभावः समुत्पद्यते, मन्दरागादितया विशुद्धाशयत्वात् ॥ 'अत्थि णं भंते !' इत्यादि, अस्ति भदन्त ! उत्तरकुरुपु कुरुष राजेति। वा राजा-चक्रवर्ती बलदेववासुदेवो महामाण्डलिको वा युवराज इति वा-उस्थिताशनः ईश्वरो-भोगिकादि, अणिमाद्यष्टविधैश्वर्ययुक्त | ईश्वर इत्येके, तलवर इति वा, तलवरो नाम परितुष्टनरपतिप्रदत्तरत्नालङ्कतसौवर्णपट्टविभूषितशिरा:, कौटुम्बिक इति वा, कतिपयकु-1
टुम्बप्रभुः कौटुम्बिकः, माडम्बिक इति वा, यस्य प्रत्यासन्नं प्रामनगरादिकमपरं नास्ति तत्सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्बं तहास्याधिपति डम्बिकः, इभ्य इति वा, इभो-हस्ती तत्प्रमाणं द्रव्यमहतीतीभ्यः, यत्सत्कपुजीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि ट्रान दृश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रेष्ठीति वा श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी,
सेनापतिरिति वा हस्त्यश्वरथपदातिसमुदायलक्षणाया: सेनायाः प्रभुः सेनापतिः, सार्थवाह इति वा, "गणिमं धरिमं मेजं पारिच्छं ४ाचेव दवजायं तु । घेत्तृणं लाभत्थं वच्चइ जो अन्नदेसं तु ॥१॥ निववहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाहदानामं धणो व्व लोए समुव्वहइ ॥ २॥" एतल्लक्षणयुक्तः सार्थवाहः, भगवानाह-गौतम! नायमर्थः समर्थो, व्यपगतद्धिसत्कारा
१ गणिमं धरिमं मेयं परिच्छेयं चैव द्रव्यजातं तु । गृहीत्वा लाभार्थ ब्रजति योऽन्यदेशं तु ॥ १॥ नृपबहुमतः प्रसिद्धो दीनानाधानां वत्सलः पथि । स सार्थवाहनाम धन इव लोके समुदहति ॥२॥
Jain Education Inter
For Private & Personel Use Only
Painelibrary.org