________________
वेंन्द्रियगात्रप्रह्लादनीयं, वैशयेन तत्प्रह्लादहेतुत्वात् , एवमुक्ते गौतम आह-भगवन् ! भवेदेतद्रूपः पुष्पफलानामास्वादः ?, भगवानाहगौतम ! नायमर्थः समर्थः, तेषां पुष्पफलानामितश्चक्रवर्तिभोजनादिष्टतरादिरेवास्वादः प्रज्ञप्तः ॥ 'ते णं भंते!' इत्यादि, ते भदन्त ! मनुजास्तं-अनन्तरोदितस्वरूपमाहारमाहार्य 'क्व वसती' कस्मिन्नुपाश्रये 'उपयान्ति ?' उपगच्छन्ति, भगवानाह-गौतम! 'वृक्षगृहालया' वृक्षरूपाणि गृहाणि आलया-आश्रया येषां ते वृक्षगृहालयास्ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन! ॥ ते भने, | इत्यादि, ते भदन्त ! वृक्षाः 'किंसंस्थिताः' किमवसंस्थिताः प्रज्ञप्ता: ?, भगवानाह-गौतम! अप्येकका: कूटाकारसंस्थिताः शिखराकारसंस्थिता इत्यर्थः अप्येककाः प्रेक्षागृहसंस्थिताः अप्येककाश्छत्रसंस्थिता: अप्येकका ध्वजसंस्थिता: अप्येककाः स्तूपसंस्थिताः अप्येककास्तोरणसंस्थिताः अप्येकका गोपुरसंस्थिताः, गोभिः पूर्यत इति गोपुरं-पुरद्वारं, अप्येकका वेदिकासंस्थानसंस्थिताः, वेदिका-उप
वेशनयोग्या भूमिः, अप्येककाश्चोप्पालसंस्थिता इत्यर्थः, चोप्पालं नाम मत्तवारणं, अप्येकका अट्टालकसंस्थिताः अट्ठालक:-प्राकारस्योहा पर्याश्रयविशेषः, अप्येकका वीथीसंस्थिता: वीथी-मार्गः, अप्येककाः प्रासादसंस्थिताः, राज्ञां देवतानां च भवनानि प्रासादा: उत्सेधबहुला
वा प्रासादास्ते चोभयेऽपि पर्यन्तशिखराः, हयं-शिखररहितं धनवता भवनं, अप्येकका गवाक्षसंस्थिताः, गवाक्षो-यातायनं, अप्येकका हवालाग्रपोतिकासंस्थिताः, वालाप्रपोतिका नाम तडागादिषु जलस्योपरि प्रासादः, अप्येकका वलभीसंस्थिताः, वलभी-गृहाणामाच्छाहदनं, अप्येकका वरभवन विशिष्टसंस्थानसंस्थिताः, वरभवनं सामान्यतो विशिष्टं गृहं तस्येव यद् विशिष्टं संस्थानं तेन संस्थिताः, शुभा
शीतला च छाया येषां ते शुभशीतलच्छायास्ते द्वमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! | ‘अस्थि णं भंते !' इत्यादि, सन्ति |भदन्त ! उत्तरकुरुपु कुरुषु गृहाणि वाऽस्मद्गृहकल्पानि गृहायतनानि-तेपु गृहेषु तेषां मनुष्याणामायतनानि-मनानि गृहायतनानि ?,
Jain Education Intey
For Private Personal use only
T
hinelibrary.org