SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा यावृत्तिः ।। २७८ ।। टमोदकादयः खाद्यविशेषा लोकतः प्रत्येतव्याः, 'चाउरके वा गोखीरे' इत्यादि वा चातुरक्यं - चतुःस्थानपरिणामपर्यन्तं तच्चैव-गां जीवाभि० * पुण्डूदेशोद्भवेक्षुचारिणीनामनातङ्कानां कृष्णानां यत्क्षीरं तदन्यान्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं दीयते, तत्क्षीरमध्येवंभूतामलयगि भ्योऽन्याभ्यस्तत्क्षीरमध्यन्याभ्य इति चतुःस्थानपरिणामपर्यन्तं एवंभूतं यच्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपनीतं - खण्डगु| डमत्स्यण्डिका उपनीता यत्र तत्तथा सुखादिदर्शनान्निष्ठान्तस्य परनिपातः, खण्डादिभिः सुरसतां प्रापितमिति भाव:, 'मंदग्गिकढिए' मन्दमग्निना कथितं मन्दाग्निकथितम्, अत्यग्निकथितं हि विरसं विगन्धादि च भवतीति मन्दग्रहणं, वर्णाद्यतिशयप्रतिपादनार्थमेवाह - वर्णेन - सामर्थ्यादतिशायिना अन्यथा वर्णोपादाननैरर्थ क्यापत्तेः उपपेतं युक्तं, एवं गन्धेन रसेन स्पर्शेन चातिशायिनोपपेतं, एवमुक्ते गौतम आह-भगवन् ! भवेदेतद्रूपः पृथिव्या आस्वाद: ?, भगवानाह - गौतम ! नायमर्थः समर्थः, तस्याः पृथिव्या इतो- गुडखण्डशर्करादेरिष्टतर एव यावत्करणात् 'कंततराए चेव पियतराए चेव मणामतराए चेवेति परिग्रहः, आस्वादः प्रज्ञप्तः । पुष्पफलादीनामास्वादनं पृच्छन्नाह - 'तेसि णं भंते! पुप्फफलाण' मित्यादि तेषां कल्पपादपसत्कानां पुष्पफलानां कीदृश आस्वादः प्रज्ञतः ?, भ गवानाह - गौतम! ' से जहा नामए' इत्यादि तद्यथा नाम राज्ञः स च राजा लोके कतिपयदेशाधिपतिरपि प्राप्यते तत आहचतुरन्तचक्रवर्त्तिनः - चतुर्षु अन्तेषु त्रिसमुद्रहिमवत्परिच्छिन्नेषु चक्रेण वर्त्तितुं शीलं यस्यासौ चक्रवर्त्ती तस्य कल्याणं - एकान्तसुखावहं भोजनं शतसहस्रनिष्पन्नं- लक्षनिष्पन्नं वर्णेनातिशायिनेति गम्यते, एवं गन्धेन रसेन स्पर्शेनोपपेतं आस्वादनीयं सामान्येन विवा * दनीयं विशेषतस्तद्रसप्रकर्षमधिकृत्य दीपनीयमभिवृद्धिकरं दीपयति हि जाठराग्निमिति दीपनीयं, बाहुलकात्कर्त्तर्यनीयप्रत्ययः एवं दर्पणीयमुत्साहवृद्धिहेतुत्वान्, मदनीयं मन्मथजननात्, बृंहणीयं धातूपचयकारित्वात्, सर्वाणीन्द्रियाणि गात्रं च प्रह्रादयतीति स For Private & Personal Use Only Jain Education In ३ प्रतिपत्तौ देवकुर्वधिकारः उद्देशः २ सू० १४७ ।। २७८ ।। jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy