SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Jain Education तिप्रतनुक्रोधमानमायालोभा:, अत एव मृदु-मनोज्ञं परिणामसुखावहमिति भावः यन्मार्दवं तेन संपन्ना मृदुमावसंपन्ना न कपटमार्दवो पेताः 'अल्लीणा' इति आ - समन्तात्सर्वासु क्रियासु लीना गुप्ता आलीना नोल्त्रणचेष्ठाकारिण इत्यर्थः, भद्रकाः - सकलतत्क्षेत्रोचितकल्याणभागिन: विनीता - बृहत्पुरुपविनयकरणशीलाः अल्पेच्छा- मणिकनकादिविपयप्रतिबन्धरहिता अत एवासन्निधिसञ्चया न विद्यते सन्नि धिरूपः सभ्यो येषां ते तथा, 'विडिमंतर परिवसणा' विडिमान्तरेपु - शाखान्तरेषु प्रासादाद्याकृतिषु परिवसनं - आकालमावासो येषां ते विडिमान्तरपरिवसना: 'जहिच्छिय कामकामिणो' यथेप्सितान् मनोवाञ्छितान् कामान- शब्दादीन् कामयन्त इत्येवंशीला यथेप्सि तकामकामिनः, ते उत्तरकुरुवास्तव्या णमिति पूर्ववत् मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'तेसि णं भंते!' इत्यादि, तेपां भदन्त ! उत्तरकुरु वास्तव्यानां मनुष्याणां 'केवाइकालस्स' ति सप्तम्यर्थे पष्ठी कियति काले गते भूय आहारार्थः समुत्पद्यते ? - आहारलक्षणं प्रयोजनमुपतिष्ठते ?, भगवानाह - गौतम ! 'अष्टमभक्तस्य' अत्रापि सप्तम्यर्थे षष्टी अष्टमभक्तेऽतिक्रान्ते आहारार्थः समुत्पद्यते । 'ते णं भंते!' इत्यादि, ते उत्तरकुरुवातत्र्या भदन्त ! मनुष्याः किमाहारमाहारयन्ति ?, भगवानाह - गौतम ! पृथिवीपुष्पफलाहारा:- पृथिवीपुष्पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'तेसि णं भंते' इत्यादि, तस्या भदन्त ! पृथिव्याः कीदृश आस्वादः प्रज्ञप्तः ?, भगवानाह - गौतम! 'से जहा नामए' इत्यादि, तत्-लोके प्रसिद्धं यथा नाम 'ए' इति वाक्यालङ्कारेऽखण्डमिति वा इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्दो विकल्पने, एवं सर्वत्र, गुड इति वा शर्करा इति वा, इयं शर्करा काशादिप्रभवा द्रष्टव्या, मत्स्यण्डिका इति वा, मत्स्यण्डी - खण्डशर्करा, पर्पटमोदक इति वा विसकन्द इति वा पुष्पोत्तरेति वा पद्मोत्तरेति वा विजया इति वा महाविजया इति वा उपमा इति वा अनुपमा इति वा, प For Private & Personal Use Only www.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy