________________
॥ २७७ ॥
श्रीजीवा- निरुपलेपशरीरा:, सूत्रे च निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात्, 'छायाउज्जो वियंगमंगा' छायया- शरीरप्रभया उद्योतितजीवाभि० * मङ्गमङ्गम् - अङ्गप्रत्यङ्गं येषां ते तथा, 'अनुलोमवाउवेगा' अनुलोम :- अनुकूलो वायुवेगः:- शरीरान्तर्वर्तिवातजवो येषां ते अनुलोममलयगि- वायुवेगाः, वायुगुल्मरहितोदरमध्यप्रदेशा इति भावः, आह च मूलटीकाकारः - "उदर मध्यप्रदेशे वायुगुल्मो येषां तेषामनुलोमो रीयावृत्तिः वायुवेगो न भवति, तदभावाच्च तेषामनुलोमो भवति वायुवेगो मिथुनाना" मिति, 'कङ्कग्रहणी' इति कङ्कः - पक्षिविशेषस्तस्येव ग्रहणि:गुदाशयो नीरोगवर्चस्कतया येषां ते कङ्कपहणयः, 'कवोयपरिणामा' कपोतस्येव - पश्चिविशेषस्य परिणाम आहारपाको येषां ते क पोतपरिणामाः, कपोतस्य हि जाठराग्निः पापाणलवानपि जरयतीति श्रुतिः, एवं तेपामध्यत्यर्गलाहारग्रहणेऽपि न जातुचिदध्यजीर्णदोषा भवन्तीति, 'सउणिपोसपितरोरुपरिणया' इति शकुनेरित्र-पक्षिण इव पुरीपोत्सर्गे निर्लेपतया 'पोसं'ति पोस:- अपानदेश: 'पुसउत्सर्गे' पुरीपमुत्सृजन्त्यनेनेति व्युत्पत्तेः तथा लघुपरिणामतया पृष्ठं च प्रतीतं अन्तरे च- पृष्ठोदरयोरन्तराले पार्श्वावित्यर्थः ऊरू चेति द्वन्द्व : ते परिणता येषां ते शकुनिपोसपृष्ठान्तरोरुपरिणताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनान् 'विग्गहिय उन्नयकुच्छी' वि ग्रहिता - मुष्टिग्राह्या उन्नता च कुक्षिर्येषां ते विग्रहितोन्नतकुक्षयः, वर्पभनाराचं संहननं येषां ते वर्षभनाराचसंहननाः, तथा सम चतुरस्रं च तत् संस्थानं च समचतुरस्रसंस्थानं तेन संस्थिताः समचतुरस्रसंस्थानसंस्थिताः, षड्धनुःसहस्रोच्छ्रिता:- त्रिगव्यूतप्रमाणोच्छ्रयाः, तथा तेषामुत्तरकुरु वास्तव्यानां मनुष्याणां द्वे पृष्ठकरण्डकशते पट्पञ्चाशे-षट्पञ्चाशदधिके प्रज्ञमे तीर्थकरगणधरैः ॥ 'ते णं मणुया' इत्यादि, ते उत्तरकुरुवास्तव्या मनुजाः प्रकृत्या - स्वभावेन भद्रकाः - अपरानुपतापहेतुकायवाङ्मनश्चेष्टाः, तथा प्रकृत्या - स्वभावेन न तु परोपदेशतः परेभ्यो भयतो वोपशान्ताः, तथा प्रकृत्या - स्वभावेन प्रतनवः - अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते प्रकृ
Jain Education Inte
For Private & Personal Use Only
३ प्रतिपत्ती
देवकुर्वधिकारः उद्देशः २
सू० १४७
॥ २७७ ॥
ainelibrary.org