________________
कलिताः, एवंविधविशेषणाश्च स्वपतिं प्रति द्रष्टव्या न परपुरुष प्रति, तथा क्षेत्रस्वाभाव्यतः प्रतनुकामतया परपुरुषं प्रति तासामभिलापासम्भवात् , पूर्वोक्तमेवाथै संपिण्ड्याह-वरस्तनजघनवदनकरचरणनयनलावण्यवर्णयौवनविलासकलिता नन्दनवनचारिण्य इवाप्स-17 | रसः, 'अच्छेरपेच्छणिज्जा' इति आश्चर्यप्रेक्षणीयाः 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् ॥ सम्प्रति स्त्रीपुंसविशेषमन्तरेण सामान्यतस्तत्रत्यमनुष्याणां स्वरूपं प्रतिपिपादयिपुरिदमाह-'ते णं मणुया ओहस्सरा' इत्यादि, ते उत्तरकुरुनिवासिनो मनुष्या ओघ:प्रवाही स्वरो येषां ते ओघखराः, हंसस्येव मधुरः स्वरो येषां ते हंसस्वराः, क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौञ्चस्वराः, एवं सिंहवरा दुन्दुभिस्वरा नन्दिस्वराः, नन्द्या इव घोष:-अनुनादो येषां ते नन्दीघोषाः, मञ्ज:-प्रियः स्वरो येपां ते मञ्जस्वराः, मजुघोंपो येषां ते मञ्जुघोपाः, एतदेव पदद्वयेन व्याचष्टे-सुखराः सुखरनिर्घोषा: 'पउमुप्पलगंधसरिसनीसाससुरभिवयणा' पञ-कमलमुत्पलं-नीलोत्पलं अथवा पञ-पद्मकाभिधानं गन्धद्रव्यं उत्पलम्-उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सदृश:समो यो नि:श्वासस्तेन सुरभिगन्धि वदनं-मुखं येषां ते पद्मोत्पलगन्धसदृशनिःश्वाससुरभिवदनाः, तथा छवी-छविमन्त उदात्तवर्णया सुकुमारया च त्वचा युक्ता इति भावः 'निरायंकउत्तमपसत्थअइसेसनिरुवमतणू' निरातङ्का-नीरोगा उत्तमा-उत्तमलक्षणोपेता
अतिशेषा-कर्मभूमकमनुष्यापेक्षयाऽतिशायिनी अत एव निरुपमा-उपमारहिता तनु:-शरीरं येषां ते निरातकोत्तमप्रशन्तातिशेषनि-2 कारुपमतनवः, एतदेव सविशेषमाह-'जल्लमलकलंकसेयरयदोसवज्जियसरीरनिरुवलेवा' याति च लगति चेति जल्ल:-पृपोदरादि
वान्निष्पत्तिः स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्लमलः स च कलङ्गं च-दुष्टतिलकादिकं चित्रादिकं वा खेदश्व-प्रस्वेदः रजश्चसारेणुर्दोषो-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं च-मूत्रविष्टायुपलेपरहितं शरीरं येषां ते जल्लमलकलङ्कस्खेदरजोदोपवर्जित
जी०१७
Jain Education Intel
TRI
For Private
Personal Use Only
nelibrary.org