________________
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ २७३ ॥
Jain Education
जुत्तसवणा' आलीनौ न तु टप्परौ प्रमाणयुक्तौ - प्रमाणोपेतौ श्रवणौ-कर्णौ येषां ते आलीनप्रमाणयुक्तश्रवणाः, अत एव 'सुसवणा' शोभनश्रवणा: 'पीणमंसलकवोलदेसभागा' पीनौ-अकृशौ यतो मांसलौ - उपचितौ कपोलदेशौ - गण्डभागौ मुखस्य देशभागौ येषां ते पीनमांसल कपोलदेशभागाः, अथवा कपोलयोर्देशभागाः कपोलदेशभागाः कपोलावयवा इत्यर्थः पीना - मांसलाः कपोलदेशभागा | येषां ते पीनमांसलकपोलदेशभागाः 'निव्वणसमलट्ठमट्ठचंदद्धसमनिडाला' निर्माण विस्फोटकादिक्षतरहितं समं-अविषमं अत एव लष्टं - मनोज्ञं मृष्टं - मसृणं चन्द्रार्द्धसमं - शशधरसमप्रविभागसदृशं ललाटं - अलकं येषां ते निर्वगसमल चन्द्रार्द्धसमललाटा:, सूत्रे 'निडा - ले'ति प्राकृतलक्षणवशात्, 'उडुवइपडिपुण्णसोमवयणा' प्राकृतत्वात्पदन्यत्ययः, प्रतिपूर्णो डुपतिरित्र सम्पूर्णचन्द्र इव सोमं सश्रीकं वदनं येषां ते प्रतिपूर्णोडुपतिसोमवदनाः, 'घणनिचियसुबद्धलक्खणुन्नय कूडागारनिहर्निडियसिरा' घनं - अतिशयेन निचितं घननिचितं सुष्ठु - अतिशयेन बद्धानि - अवस्थितानि लक्षणानि यत्र तत् सुबद्धलक्षणं, उन्नतं - मध्यभागे उच्चं यत्कूटं तस्याकारो-मूर्त्तिस्तन्निभमुन्नतकूटाकारसदृशमिति भावः पिण्डितं - स्वकर्मणा संयोजितं शिरो येषां ते घननिचितमुबद्धल अणोन्नत कूटाकारनिभपिण्डितशिरसः 'छत्ताकारुत्त| मंगदेसा' छत्राकार उत्तमाङ्गरूपो देशो येषां ते छत्राकारोत्तमाङ्गदेशा: 'दाडिमपुप्फप्पगासतवणिज्ज सरिस निम्मल सुजाय के संत केसभूमी' दाडिमपुष्पप्रकाशा - दाडिमपुष्पप्रतिमास्तपनीयसदृशाश्च निर्मला-आगन्तुक स्वाभाविकमलरहिताः केशान्ताः केशभूमिश्च - केशोत्पत्तिस्थानभूता मस्तकत्वग् येषां ते दाडिमपुष्पप्रकाशतपनीयसदृशनिर्मलसुजान केशान्त केशभूमयः 'सामलिवोंडघणछोडियमिउविसयपसत्थसुहुम लक्खणसुगंधसुन्दर भुयमोयगभिंगनीलकज्जलपट्टभ मरगणाने कुरं च निचियकुंचियपयाहिणावत्तमुद्धसि - रया' शाल्मली - वृक्षविशेषः स च प्रतीत एव तस्य बोण्डं-फलं तद्वच्छोटिता अपि घनं अतिशयेन निचिता: शाल्मलीबोण्डघननि
For Private & Personal Use Only
३ प्रतिपत्तौ
देवकुर्व
धिकारः
उद्देशः २
सू० १४७
॥ २७३ ॥
Xwww.jainelibrary.org