________________
Jain Education Inte
तदन्ता:, तथाऽविरला - घना दन्ता येषां ते अविरलदन्ताः, 'एगदंतसेढीविव अणेगदंता' एकाकारा दन्तश्रेणिर्येषां ते तथा ते इव परस्परानुपलक्ष्यमाणदन्तविभागत्वाद् अनेके दन्ता येषां ते अनेकदन्ताः एवं नामाविरलदन्ता यथाऽनेकदन्ता अपि सन्त एकाकारदन्तपङ्कय इव लक्ष्यन्त इति भाव:, 'हुयवहनिद्धंतधोयतत्ततवणिज्जरत्ततलतालुजीहा' हुतवहेन - अग्निना निर्मात सद् यद् धौतं शोधितमलं तप्तं तपनीयं - सुवर्णविशेषस्तद्वद् रक्ते तले - हस्ततले तालु काकुदं जिह्वा च रसना येषां ते हुतवहनिर्मातधौततपनीयर कतलतालुजिह्वा: 'गरुलायय उज्जुतुंगनासा' गरुडस्येवायता - दीर्घा ऋज्वी - अवक्रा तुङ्गा-उन्नता नासा - नासिका येषां ते गरुडायत ऋजुतुङ्गनासाः 'कोकासियधवलपत्तलच्छा' कोकासिते- पद्मवद्विकसिते धवले कचिदेशे पत्रले - पक्ष्मवती अक्षिणी-लोचने येषां ते कोकासितवलपत्राक्षाः, एतदेव स्पष्टयति- ' विष्फा लिय पुंडरीयनयणा' विस्फारितं - रविकिरणैर्विकासितं यत्पुण्डरीकं - सितपद्मं तन्नयने येषां ते विस्फारितपुण्डरीकनयनाः, कचित् 'अवदालियपुंडरीयनयणा' इति पाठस्तत्रापि अवदालितं-रविकिरणैर्विकासितमिति व्याख्येयं 'आणामियचावरुइलतणुकसिणनिद्धभुया' आनामितं - ईपन्नामितमारोपितमिति भाव: यथापं - धनुस्तद्वद् रुचिरे - संस्थानविशेषभावतो रमणीये तनू - तनुके ऋणपरिमितवालपङ्कयात्मकत्वात् कृष्णे - परमकालिमोपेते स्निग्धे -स्निग्धच्छाये भ्रुवौ येषां ते आनामितचापरुचिरतनुकृष्ण स्निग्धभ्रूकाः कचित्पाठः -- ' आणामियचारुरुचिल किन्हन्भराईसंटियसंग आययसुजायभुमया' तत्र अनामितचापवद् रुचिरे कृष्णाभ्रराजीव संस्थिते संगते-यथोक्तप्रमाणोपपन्ने आयते - दीर्घे सुजाते - सुनिष्पन्ने जन्मदोषरहितत्वाद् भ्रुवौ येषां ते तथा, कचित्पुनरेवं पाठ: - 'आणामिचावरुइल किण्हभराइतणुक सिणनिभुप्रया' तत्रानामितचापवद् रुचिरे - मनोज्ञे कृष्णाभ्रराजीव - कालमेघरेखेव तनू-तनुके कृष्णे-काले स्निग्धे सच्छाये भ्रुवौ येषां ते तथा, 'आलीणपमा
For Private & Personal Use Only
ainelibrary.org