SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः ।। २७२ ।। उद्देशः २ दिताः पाणिरेखा येषां ते अनेकवरलक्षणोत्तमप्रशस्तशुचिरचितपाणिरेखा:, 'वरमहिसवराहसिंहसद्द लउस भनागवरपडिपुण्णविउलसंधा' वरमहिप:- प्रधान सौरभेयः वराहः - शूकरः सिंहः - केशरी शार्दूलो - व्याघ्रः ऋषभो - वृषभ: नागवरः - प्रधानो गजः, एषामिव प्रतिपूर्णः - स्वप्रमाणेनाहीनो विपुलो - विस्तीर्णः स्कन्धः - अंशदेशो येषां ते वरमहिषवराहसिंहशार्दूलवृषभनागवरप्रति पूर्णविपुलस्कन्धाः 'चउरंगुल सुप्पमाणकंबुवरसरिसगीवा' चतुरङ्गुलं- स्वाङ्गुलापेक्षया चतुरङ्गुलप्रमितं सुष्ठु - शोभनं प्रमाणं यस्याः सा चतुरकुलप्रमाणा कम्बुवरसदृशी - उन्नततया वलियोगेन च प्रधानशङ्खसन्निभा ग्रीवा येषां ते चतुरङ्गुलसुप्रमाणकम्बुवर सदृशमीवाः १ सू० १४७ 'मंसलसंठियसद्दल विपुलहणुया' मांसलं - उपचितमांसं सम्यक् स्थितं संस्थितं विशिष्टस्थानमित्यर्थः प्रशस्तं प्रशस्यलक्षणोपेतत्वान् शार्दूलस्येव व्याघ्रस्येव विपुलं विस्तीर्ण हनुकं येषां ते तथा, 'अवट्ठियसुविभत्तमंसू' अवस्थितानि - अवर्द्धिष्णूनि सुविभक्तानि - विविक्तानि चित्राणि - अतिरम्यतयाऽद्भुतानि श्मश्रूणि - कूर्चकेशा येषां तेऽवस्थितसुविभक्तचित्रश्मश्रवः 'ओयवियसिलप्पवालबिंबफलसन्निभाधरोडा' ओयवियं परिकर्मितं यत् शिलारूपं प्रवालं विद्रुममित्यर्थः बिम्बफलं - गोल्हाफलं तयोः सन्निभो रक्ततया उन्नतमध्यतयाऽधरओष्ठः - अधस्तनो दन्तच्छदो येषां ते तथा, 'पंडुरससिसगलविमलनिम्मल संख गोखीर फेण कुंददगरयमुणालियाधवलदंतसेढी' पाण्डुरं-अकलङ्कं यत् शशिशकलं - चन्द्रखण्डं विमल - आगन्तुकमलरहितो निर्मल:- स्वभावोत्थमलरहितो यः शङ्खः गोक्षीरफेनः प्रतीतः कुन्दं- कुन्दकुसुमं दकरज - उदककणा: मृणालिका- बिशं, एतद्वद्भवला दन्तश्रेणिर्येषां ते पाण्डुरशशिशकलविमलनिर्मलगोक्षीरफेनकुन्द करजोमृणालिकाधव लदन्तश्रेणयः 'अखंडदंता' इति अखण्डा:- सकला दन्ता येषां ते अखण्डदन्ताः 'अफुडियदंता' अस्फुटिता - अजर्जरा राजिरहिता दन्ता येषां ते अस्फुटितदन्ताः, तथा सुजाता - जन्मदोषरहिता दन्ता येषां ते सुजा Jain Educational For Private & Personal Use Only ३ प्रतिपत्तौ | देवकुर्वधिकारः ।। २७२ ।। www.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy